________________
卐zy<卐>卐
is卐६<sz903
)
विभागादारभ्य द्विप्रदेशात्मकं विभागं यावद्भवति, यथाऽनन्तप्रदेशात्मके स्कन्धे एकप्रदेशोनलक्षणो यो विभागः स देशः, द्विप्रदेशोनोऽपि देशः, त्रिभिः प्रदेशैन्यूनः सोऽपि देशः, एवं तावद्वक्तव्यं यावज्जघन्यविभागात्मको द्विप्रदेशलक्षणो देशो
भवति । धाऽस्तिकायो यद्यप्यखण्डस्कन्धः, तथाऽप्यखण्डाऽऽकाशस्य यथा घटाकाशः पटाकाशो मठाकाश इत्यादि भेदाः | घटाधुपाधिवशतः सञ्जायन्ते, तद्वद्धाऽस्तिकायस्याऽपि कल्पनापरिकल्पिता देशप्रदेशप्रभृतयो विभागा उपजायन्ते, एवमध
माऽस्तिकायेऽप्यूह्यम् ॥ स्कंधलग्नो परमाणुःस प्रदेशः, प्रकर्षतया देशः प्रदेश इत्यर्थः, नान्यो प्रदेशान्यूनो विभागः केवलिभिरपि दृष्टः, तत्राऽनादिकालतो धाऽस्तिकायस्याऽसंख्येयाऽणव एकत्र पिण्डिताः सम्भूय तिष्ठन्ति, अतस्तस्याऽणवः प्रदेशा उच्यन्ते, एवमेवाऽधाऽऽकाशजीवद्रव्याणामपि प्रदेशा ज्ञातव्याः, तथा द्विप्रदेशिस्कंधादारभ्याऽनन्तप्रदेशिस्कंधं यावत् सर्वेष्वपि स्कंधेषु येऽणवः सन्ति ते सर्वे प्रदेशनाम्ना उच्यन्ते स्कंधादप्रतिबद्धः पृथग-भिन्नो योऽणुः स परमाणुः, परम उत्कृष्टोऽणुः स परमाणुः, विवक्षितस्य यस्य परमाणोरथ पुनर्भागो न भवितुमर्हति । प्रदेशपरमाण्वोर्मध्येऽयमेव विशेषः, प्रदेशः स्कंधादभिन्नस्तत्रैव स्कंधे प्रतिबद्धः, परमाणुस्तु स्कंधान भिन्नः स्कंधे प्रतिबद्धः, क्षेत्रं तु द्वयोरपि तुल्यं, यावत्परिमिते क्षेत्रे प्रदेशेन स्थीयते तावत्परिमिते क्षेत्रे परमाणुरपि तिष्ठति ॥ धर्माऽधाऽऽकाशास्तिकायानां जीवस्य च यथा स्कंध-देशप्रदेशात्मका भेदाः प्रज्ञया परिकल्पितास्तथा परमाणुनामको भेदो ने परिकल्प्यते, यतः परमाणुस्तु स उच्यते यः स्कंधाद्विभिन्नः, नहि उक्तस्वरूपेभ्यो धर्माऽधादिभ्योऽणुः पृथग् भवति, अतः परमाण्वाऽऽख्यः प्रभेदो न जायते तेषाम् । पुद्गलद्रव्यं तु वस्तुतः परमाण्वात्मकमेव, स्कंध-देश-प्रदेशास्तु तस्य परमाणोरेव विकाराः । द्रव्यपटूमध्ये जीवपुद्गलद्रव्ये विभा
-)
-)
i>