________________
i z
10)卐
1
श्रीनवतत्त्व सुमङ्गलाटीकायां
अजीवतत्त्व स्कंधदेशप्रदेशादिनिरूपणम्॥
॥२८॥
शाऽस्तिकायः स आकाशाऽस्तिकायस्कन्धः, जघन्येनाऽङ्गलाऽसंख्येयभागप्रमाण उत्कृष्टेन चतुर्दशरंज्जुप्रमाणोऽसंख्येयप्रदेशात्मको यो जीवः स जीवस्कन्धः (अजीवतत्त्वव्याख्याप्रसङ्गे नास्ति जीवस्कन्धव्याख्यानप्रयोजनं तथापि प्रसङ्गत उक्तम्)। द्विप्रदेशात्मकस्त्रिप्रदेशात्मकस्संख्यप्रदेशात्मकोऽसंख्येयप्रदेशाऽऽत्मको यावदनन्तप्रदेशाऽऽत्मको यः पुद्गलविभागः स पुद्गलास्तिकायस्कन्धः । पुनरेषु पुद्गलस्कन्धेषु विवक्षितैकस्कन्धस्य द्वौ विभागौ यदा विहितौ तदा द्वावपि स्कन्धौ व्यपदिश्येते, यथा कश्चित् काष्ठस्तम्भः द्विधाविभक्तस्तदा द्वयोरपि विभागयोः स्कंधसंज्ञा, पुनस्तयोरेव द्वयोर्विभागयोर्यदि चत्वारो भागा विहिताश्चेत्तदा चतुर्णामपि स्कन्धसंज्ञा सञ्जायते, यतः पुद्गलद्रव्येषु स्कंधदेशयोर्व्यपदेशौ आपेक्षिको स्तः, न तथा | धर्माऽधाऽऽकाशद्रव्येषु, यतो तेषु देशकल्पना केवलं बुद्धिजन्या, न कदाचिदपि प्रज्ञापरिकल्पितो देशः स्कंधात् पृथग्भूत्त्वा स्वयं स्कंधसंज्ञां भुनक्तीति ॥
स्कंधाऽपेक्षया तस्यैव स्कंधस्य यो न्यूनो न्युनतमो वा विभागस्स देशः, देशः खण्डो विभाग इत्येकार्थाः, यथाऽक्षतान्मौक्तिकाद्विभिन्नो यो विभागः सोऽखण्डमुक्ताफलाऽपेक्षया देश उच्यते, पुनर्यदा महत्याश्शिलायाः खण्डः शिलापेक्षया देश | उच्यते, एवमेकस्मात् प्रतिविशिष्टात् स्कंधाद् भेदेन सञ्जातः सोऽप्रतिबद्धदेशः, पुनः स्कंधादभिन्नः तस्मिन्नेव स्कन्धे केवलं प्रज्ञापरिकल्पितो यो विभागविशेषः स प्रतिवद्धदेशोभिधीयते । अयं विभागात्मको देश एकप्रदेशन्यूनाऽनन्तप्रदेशात्मकाद्
१. सूक्ष्मबादरभेदभिन्नपृथिवीकायिकादेरपेक्षयेदं ज्ञेयम् । २. केवलिसमुद्घाताऽपेक्षयेदम् ।।
yz卐o卐卐-
॥२८॥