________________
z
>y
>卐
-卐
परः, पञ्चवार्षिकापेक्षया चतुर्वार्षिकश्चाऽपर इत्यात्मको व्यपदेशः कालकृतः, इति त्रिभिः प्रकारैः परत्त्वाऽपरत्त्वपर्यायौ सुविज्ञेयौ ॥ इत्येवं वर्त्तनादिपर्यायाः कालस्योपकारकत्वेन समाख्याताः, यदवादिषत प्रौढविज्ञानविभासनभास्कराः श्रीमदुमाखातिसूरयः " वर्त्तना परिणामः क्रियापरत्त्वाऽपरत्वे च कालस्य" (तत्त्वा० अ-५-मू-२२) परत्वाऽपरत्त्वपर्यायेषु प्रशंसाकृत-क्षेत्रकृत-कालकृतलक्षणेषु प्रशंसाकृत-क्षेत्रकृते परत्त्वाऽपरत्वे वर्जयित्वा कालकृतं परत्त्वाऽपरत्वमेवात्र कालस्योपकारकं विज्ञेयम् । तथा चाहुः-"तदेवं प्रशंसाकृतक्षेत्रकृते परत्त्वाऽपरत्वे वर्जयित्वा वर्तनादीनि कालकृतानि कालस्योपकारः", ( तत्त्वा० भा० अ-५-सू-२२)। अथवा ऋजुसूत्रनयाऽपेक्षयाऽतीतस्य विनष्टत्वेनाऽनागतस्य चाऽनुत्पन्नत्वेन वर्तमानकसमयाऽऽत्मको नैश्चयिकः कालः, यदुक्तम्-"वर्तमानः पुनर्वर्तमानैकसमयात्मकः। असौ नैश्चयिकः सोऽप्यन्यस्तु व्यावहारिकः" ॥१॥इति नैश्चयिककालस्वरूपम् ॥व्यवहारकालस्तु 'समयावलीमुहुत्ता' इति वक्ष्यमाणगाथया विस्तरेणाग्रे व्याख्यास्यते।। ____ अथ स्कंधदेशप्रदेशादिशब्दानां व्याख्या वितन्यते-तत्र स्कन्दन्ते-शुष्यन्ति पुद्गलविचटनेन, धीयन्ते-पुष्यन्ति पुद्गलचटनेनेति स्कन्धाः, अनया व्याख्यया एव प्राक्तनमहर्षिभिः धम्माऽस्तिकायादिशाश्वतद्रव्येषु स्कन्धदेशप्रदेशादिव्यवहारो नोररीकृतः, तेषु पुद्गलविचटनचटनयोरभावत्वात् । केचन विद्वांसस्तु 'कस्यचिदपि द्रव्यस्याऽनेकपरमाणुसमुदायाऽऽत्मको योऽखण्डो विभागः स स्कन्ध' इति मन्यन्ते, अनेन व्याख्यानेन धाऽस्तिकायादिष्वपि स्कंध-देश-प्रभृतिव्यवहारप्रवृत्तिर्दरीदृश्यते, यथा चतुर्दशरज्जुप्रमाणो वज्राकारो यो धाऽस्तिकायः स धाऽस्तिकायस्कन्धः, एवं चतुर्दशरज्जुपरिमितो वज्राकारको योऽधाऽस्तिकायः सोऽधाऽस्तिकायस्कन्धः, अनन्तयोजनप्रमाणोपेतो धनगोलकाकारो य आका
>卐
-卐
卐
)
1