SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्त्व सुमङ्गलाटीकायां ॥ २७ ॥ 95 > A इत्येवं सादिसान्तपरिणामवन्ति पुद्गलद्रव्याणि । ननु यथा पुद्गलस्थितानां वर्णादीनां परावृत्तिधर्म्मयुक्तत्वात् पुद्गलद्रव्यं सादि परिणामोपेतं व्याख्यातं, एवं जीवस्य लक्षणत्त्वेन व्याख्यातानामुपयोगानामपि परावृत्तिस्सिद्धान्ते समाख्याता, तर्हि कथं जीवद्रव्यमनादिपरिणामवत् १, सत्यं, उपयोगानां परावर्तनमस्माभिरप्यवश्यमाद्रियते, उपयोगस्वभावापेक्षया जीवद्रव्यं सादिपरिणामभाग्, न तत्र काऽप्यारेका, पूर्वं यज्ञ्जीवद्रव्यमनादिपरिणामोपेतत्वेन व्याख्यातं तत्तु चेतनापेक्षयैव समभिहितं, न चेतनायाः परावृत्तिः केषाञ्चिदपीष्टेति, यच्च चैतन्ये व्यक्ताव्यक्तत्वं न्यूनाऽधिकत्त्वञ्च दृश्यते तदपि कर्मावरणपरतन्त्रम्, सत्ताऽपेक्षया तु सूक्ष्मनिगोदादारभ्य पञ्चेन्द्रियं यावत् सर्वे जीवा समानाऽनन्तचैतन्यभाज इत्यलमतिचर्चया । चर्चाभिलाषुकैस्तु प्रज्ञावद्भिः श्रीमदर्हत्प्रवचनसंग्रहात् तत्त्वार्थाधिगमसूत्रात् तत्तदन्वेषणीयं, अस्माकं प्रयासस्त्वस्मादृशां मन्दमेधाविनामवबोधायेति || अतीतकाले सञ्जाता अनागतकाले भविष्यन्त्यो वर्त्तमानकाले भवन्त्यश्च या या द्रव्याणां चेष्टाः स स क्रियापर्याय इति लोकप्रकाशाऽनुसारेण, तत्त्वार्थानुसारेण तु क्रियाशब्देन गतिर्व्याख्याता सा च गतिस्त्रिविधा, प्रयोगगतिः विश्रसागतिः मिश्रा च तत्र परप्रयोगजन्या प्रयोगगतिः, स्वस्वभावत्वेन सञ्जाता विश्रसागतिः, उभयाभ्यां समुत्पन्ना च मिश्रागतिः, अत्र गतिशब्देन स्वस्वप्रवृतौ गमनमित्यर्थतया पूर्वोक्तार्थेन सहाऽविरोधः ।। यस्याऽऽश्रयेण द्रव्येषु पूर्वभावित्वपश्चाद्भावित्वयोर्व्यपदेशः स परत्वापरत्वपर्यायः, स च त्रिधा - प्रशंसाकृत - क्षेत्रकृतकालकृतभेदैश्व, तत्र ज्ञानं धर्मश्च परः, अज्ञानमधर्भश्चाऽपर इत्यात्मको व्यपदेशः स प्रशंसाकृतः । एकस्यां दिशिस्थितयोः पदार्थयोर्यः पदार्थो दूरवत्र्त्ती स परः, समीपवर्त्ती सोऽपर इति लक्षणो व्यपदेशः स क्षेत्रकृतः, चतुर्वार्षिकबालाऽपेक्षया पञ्चवार्षिको बालः SUSM555555 A M निरूपणम् ॥ N G A L A अजीवतन्त्वे וכן कालद्रव्य ॥ २७ ॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy