________________
z!
>
<
>卐
प्रकारेण द्रव्याणां वर्त्तनं सा वर्तना, इयं वर्त्तना प्रतिसमयं परिवर्तनात्मिका, अतो विवक्षितैकवर्तना द्विसमयं यावदपि स्थिति न कुरुते, अतो या वर्तनायाः परावृत्तिः सा पर्यायत्त्वेनाभिधीयत इति वर्त्तनापर्यायः, उक्तश्च;-" द्रव्याणां सादिसान्तादिभेदैः स्थित्यां चतुर्भिदि । यत्केनचित्प्रकारेण वर्त्तनं वर्त्तना हि सा ॥१॥ प्रयोगपरिणामविश्रसापरिणामाभ्यां जायमाना नवीनत्त्व-प्राचीनत्त्वलक्षणा या परिणतिः स परिणामः कथ्यते । किञ्चिदपि द्रव्यं न सर्वदेव नूतनं जीणं वा भवितुमर्हति । वस्तुषु या नूतनत्त्वजीर्णवधर्मयोः परावृत्तिः स पर्यायः, अत्र नूतनशब्दान्मलादिरहितो जीर्णशब्दान्मलोपेतः पदार्थो | न ग्राह्यः, किन्तु अभिनवपयायोपेतं तन्नवं, पुराणपर्यायसहितं तज्जीर्णद्रव्यमुच्यते । काललोकेऽप्युक्तम् :-" द्रव्याणां या परिणतिः प्रयोगविस्रसादिजा । नवत्त्वजीर्णताद्या च परिणामः स-कीर्तितः" ॥१॥ अथवा द्रव्यस्य द्रव्यगुणस्य च यः स्वभावः स परिणामः, तच्चोक्तं तत्त्वार्थभाष्य-"धर्मादीनां द्रव्याणां यथोक्तानां च गुणानां स्वभावः स्वतत्त्वं परिणामः, अयं परिणामः सादिपरिणामाऽनादिपरिणामभेदाभ्यां द्विधा विभक्तः, तत्र धाऽस्तिकायाऽधाऽस्तिकायाऽऽका- | शास्तिकायजीवाश्चेति चत्वारि द्रव्याण्यमूर्त्तान्यनादिपरिणामभाञ्जि, यतस्तेषां पूर्वोक्तानां चतुर्णा द्रव्याणां गतिसाहाय्यकत्वस्थितिसाहाय्यकत्त्वाऽवगाहदायकत्त्वचेतनावत्त्वादिगुणास्तेषु तेषु द्रव्येषु न कदाचिदमुकस्मिन् काले समुत्पन्नाः, किन्त्व| नादिकालात् सञ्जाता अनन्तकालं यावच्च स्थास्यन्ति, इत्यतस्तानि द्रव्याणि अनाद्यनन्तपरिणामभाञ्जि कथितानि । पुद्गल- | द्रव्यं तु सादिपरिणामभाक्, यतः पुद्गलस्य स्पर्शपरिणामा रसपरिणामा वर्णपरिणामादयस्सर्वेऽपि न नैरन्तर्येण तिष्ठन्ति परंतु परावृत्तिं भजन्ते, अतो यदा शुक्लवर्णस्य नीलवर्णतया परावर्त्तनं जातं तदा तस्य नीलवर्णस्यादिः, शुक्लवर्णस्य चान्तः,
卐६८)z909
-
>y
-
<卐
अनन्तकालं यावच्चमणास्तेषु तेषु द्रव्येषवाक्तानां चतुर्णा द्रव्याण
>