SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ हकस्स्यात् । यानि द्रव्याणि स्वस्वभावतयैवाऽनादिकालतः स्थितिपरिणामपरिणतानि तत्र स्थितावन्यद्रव्यस्यापेक्षा न वर्त्तते । यानि गमनस्थितिरूपोभयपरिणामवन्ति तानि द्रव्याणि गमनस्थितिकर्मणि सापेक्षाणीति । एतौ द्वावपि धाऽस्तिकायाऽधर्मास्तिकायौ चतुर्दशरज्जुप्रमाणपरिमितौ समसंस्थानौ समसंख्याकप्रदेशौ गमनसाहाय्यकस्थितिसाहाय्यकलक्षणौ मध्येदुग्धं शर्करावदन्योऽन्यप्रविष्टौ च वर्त्तते ॥२॥ धाऽस्तिकायादिद्रव्याणामवगाहप्रदायकमाधारभूतं यद्दव्यं तदाकाशाऽस्तिकायसंज्ञकं प्रोच्यते, अस्मिन्नाकाशाऽस्तिकायाऽऽढे द्रव्ये निखिलानि द्रव्यान्तराण्यवगाहमादायाऽऽधाराऽऽधेयतया स्थितानि, आकाशाऽस्तिकायाख्यं द्रव्यमाधारत्वेन स्थितं, आकाशद्रव्यव्यतिरिक्तानि पश्चद्रव्याण्याधेयतया व्यवस्थितानीत्यर्थः । यद्याऽऽकाशाऽस्तिकायस्याऽभावो भवेत्तदा स्थानाऽभावे धाऽस्तिकायादिद्रव्याणां कुत्र स्थिीतः स्यात् । तस्मात् सर्वत्र सकलद्रव्याणामवगाहदानलक्षण आकाशास्तिकायोऽप्यस्त्येवेति निश्चप्रचम् , अनुभवसिद्धश्चैतत् , अदृश्यमानाऽऽकाशे काष्ठस्तंभे कीलिकानां शतं सहस्रं वा मातीत्यत्र सर्वत्र आकाशस्य सद्भाव एव बीजम् । यथा धर्माऽधम्मौ असंख्यप्रदेशात्मको लोकाकाशं व्याप्य व्यवस्थितौ वैशाखसंस्थानौ तथाऽयमाकाशास्तिकायोऽप्यनन्तप्रदेशात्मकोऽनन्तयोजनप्रमाणाऽपारक्षेत्रं व्याप्य व्यवस्थितो लोहगोलकसंस्थानः । अयमाकाशो लोकाऽऽकाशाऽलोकाऽऽकाशाभ्यां द्विधा विभक्तः, तत्र यावत्परिमिते आकाशे धाऽधम्मौ जीवपुद्गलाश्च वर्जन्ते तावत्प्रमाणश्चतुर्दशरज्जुमानो लोकाकाशोऽलोकाऽऽकाशापेक्षयाऽनन्तगुणहीनः, अन्यः सर्वोऽप्यलोकाऽऽकाशो धादिद्रव्यैर्विप्रमुक्तो लोकाकाशापेक्षयाऽनन्तगुणाधिकः । लोकाकाशस्य संस्थानश्च धर्माऽधर्मद्रव्यसंस्थानवद् वैशाख 卐>卐r卐>卐卐卐>卐39Cyy
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy