SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्त्वसुमङ्गलाटीकायां >< 33z! अजीवतत्त्वे धास्ति कायनिरूपणम्॥ ॥२५॥ द्रव्यग्रहणात्मकचलनक्रियासु च धर्मास्तिकाय उपकारकत्वेन व्यवस्थितः, उक्तञ्च लोकप्रकाशे-"जीवानामेव चेष्टासु गमनागमनादिषु । भाषामनोवचःकाययोगादिष्वेति हेतुताम्" ॥१॥ जीवपुद्गलानां स्थिरीकरणे यदुपकारिद्रव्यं तदधाऽस्तिकायसंज्ञं, गतिसाहाय्यकधाऽस्तिकायगुणापेक्षया विपरीतः स्थितिसाहाय्यकगुणः स अधर्मः, तस्य अस्तिकायः प्रदेशसमूहः सोऽधर्मास्तिकायः ॥ गतिपरिणामपरिणता जीवपुद्गला यथा धर्मास्तिकायाऽऽख्योपकारिद्रव्यसाहाय्येन गमनक्रियाकुशलास्संञ्जायन्ते तद्वत् स्थितिपरिणामपरिणतानां जीवपुद्गलानां स्थितिरधर्मास्तिकायसंज्ञकोपकारिद्रव्यसाचिव्याद्भवतीत्यर्थः। मार्गजन्यपरिश्रमपरिश्रान्तः पथिकः परिश्रमनिवारणार्थ पृथिवीरुहः छायां दृष्ट्वा यथा स्थितिं कुरुते, उड्डीयमानस्य विहङ्गमस्य भृवृक्षो गिरिशिखरं च स्थिती निमित्ततया यथा भवति, एवं स्थितिपरिणामपरिणतानां जीवानां स्थितावधाऽस्तिकायः कारणवेन समाख्यातः, यद्यस्मिल्लोके अधमास्तिकायस्याऽभावस्स्यात् तदा जीवपुद्गलानां गमनमेव प्रवर्तेत । उक्तञ्च लोकप्रकाशे-" अयं निपदनस्थान-शयनाऽऽलम्बनादिषु । प्रयाति हेतुतां चित्तस्थैर्यादिस्थिरतासु च"॥१॥ अत्र प्रेरकश्चोदयति;-ननु धाऽस्तिकायाऽधम्मोऽस्तिकायाऽऽकाशाऽस्तिकायकालसंज्ञकानि चत्वारि द्रव्याण्यपि स्थिराण्येव, तत्रापि स्थित्युपकारिणाऽधम्मोस्तिकायन भावतव्यम् , ततो जीवपुद्गलानामेवाऽधाऽस्तिकायः स्थितिहेतुरिति किमर्थमुच्यते ? अत्रोच्यते-धर्माऽस्तिकायादि द्रव्यचतुष्कं त्वनादिकालतः स्वस्वभावादेव स्थितिपरिणामेन स्थितं, तस्य धादिद्रव्यचतुष्कस्य न कदाचनाऽपि गतिपरिणाम: संभवति । गतिपरिणामाऽभावे गमननिवतिलक्षणस्थितिपरिणामस्य कुतः कल्पना? यतोऽधम्मोऽस्तिकायः स्थितावुपबृं 10)卐६)卐z卐05 > < 卐卐>卐 ॥२५॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy