________________
izs
y
5 -
रातीतत्त्वान्न चाक्षुषविषया भवन्ति ते सर्वेऽपि पइद्रव्यान्तर्गताः। तत्र द्रव्यषद्कमध्ये स्थानात् स्थानान्तरं गमनशीला जीवपुद्गलाः, इतरे नियतस्थानशालिनः, तत्र जीवो यावत्कालं संसारे पर्यटति तावत्पर्यन्तं स्वकीयभवे औदारिकवैक्रियादिशरीरालम्बनेन भवाद्भवान्तरं गच्छन् कार्मणशरीराऽऽलम्बनेन च गमनक्रियां कुरुते, यदा निर्मलध्यानाऽग्निदग्धकर्मेन्धनो भवति जीवस्तदा तु स्वस्वभावादेव स्वाऽवगाढाऽऽकाशप्रदेशेभ्यः प्रदेशान्तरमस्पृशन् पूर्वप्रयोगाद-सङ्गत्वाद्-बन्धच्छेदा-त्तथागतिपरिणामाच्च सिद्धिस्थानं गच्छति ॥ पुद्गला अपि स्वस्वभावतया जीवस्य प्रेरणया वा गमनक्रियामाजस्सन्ति, एवमनया रीत्या जीवपुद्गलानां गतिः प्रवर्तते, परं तस्यां गमनक्रियायामन्यद्रव्यस्याऽपेक्षाऽऽवश्यकी, यव्यसाहाय्येन गतिपरिणामवतां जीवपुद्गलानां गमनक्रिया भवति तद् धर्माऽस्तिकायनामकं द्रव्यम् । उड्डयनसामर्थ्यभाग विहंग उड्डयनशक्तिसद्भावेऽपि वायुना विना न विहायसा गन्तुं शक्नोति, तरणक्रियासामर्थ्यसंपन्नोऽपि मत्स्यो जलं विना न तरणक्रियाकुशलतां भजति, आकर्णदीर्घाऽऽयतलोचनेनापि पुंसा प्रकाशमन्तरेण घटपटादिपदार्था न दृश्यन्ते, एवमेव गमनशक्तिमन्तोऽपि जीवपुद्गला धर्मास्तिकायं विरहय्य स्थानात्स्थानान्तरं गन्तुं न सामर्थ्यभाजो भवन्ति । अस्य धाऽस्तिकायस्य निर्विभाज्यभागरूपाऽसंख्येयाः प्रदेशाः सर्वे च ते शृङ्खलावयवा इव परस्परं सम्बद्धा वर्तन्ते, अनेन धर्मास्तिकायसंज्ञकद्रव्येण चतुर्दशरज्जुपरिमितः समस्तलोको व्याप्तः, अतस्तस्य संस्थानमपि लोकसंस्थानवत् कटिन्यस्तहस्तपादप्रसारितपुरुषवद्वा वैशाखसंस्थानं विद्यते ॥ इह लोके ऐतव्यमेकमेवाऽमृतश्च, भाषोच्छ्वासमनःप्रभृतिप्रायोग्यपुद्गलद्रव्यादानं धम्मोस्तिकायं विना गमनक्रियाऽसम्भवे न संजाघटीति, तस्माजीवस्य गमनाऽऽगमनादिचेष्टासु भाषाप्रभृतियोग्यपुद्गल
5<
-g>
<!