________________
z
अजीवतत्त्वे
>
चतुर्दश
श्रीनवतत्त्व सुमङ्गलाटीकायां॥२४॥
भेदाः ॥
>
-
सङ्घातोऽस्तिकायः, धर्मश्चासावस्तिकायो धाऽस्तिकायो, तद्विपरीतोऽधाऽस्तिकायः, आकाशाऽस्तिकायः प्रतीतः, एते त्रयोऽपि त्रित्रिभेदाः, यथा धाऽस्तिकायस्कंधः, धर्मास्तिकायदेशः, धर्माऽस्तिकायप्रदेशः, तत्र सकलदेशप्रदेशानुगतसमानपरिणामवद् द्रव्यं धर्माऽस्तिकायस्कंधः, तस्यैव बुद्धिकल्पितो देशो व्यादिप्रदेशात्मको भागो धर्मास्तिकायदेशः, तस्यैव प्रदेशो निर्विभागभागो धर्मास्तिकायप्रदेशः। अयं देशप्रदेशादिको विभागः कदाचिन्नातीतकालेऽभवत् , न च वर्तमानकालेऽपि वरीवर्तते, न चाऽऽगामिकाले वर्वर्ण्यति, केवलं शिष्यबुद्धिवैशद्यार्थमेव मतिकल्पनापरिकल्पितो देशप्रदेशादिको विभागः समवसेयः। एवमधर्माऽस्तिकायाऽऽकाशास्तिकाययोरपि त्रीणि त्रीणि भेदानि समवगन्तव्यानि । तद्यथा-अधाऽस्तिकायस्कन्धः, अधर्मास्तिकायदेशः, अधाऽस्तिकायप्रदेशः, आकाशास्तिकायस्कंधः, आकाशास्तिकायदेशः, आकाशास्तिकायप्रदेश इति त्रयाणां नवभेदाः सञ्जाताः। तश्चैव अद्धा कालः तस्य च अतीताऽनागतयोविनष्टाऽनुत्पन्नत्वेनाऽसत्त्वाद् वर्तमानसमयलक्षणमेकविधत्त्वमेव, न सन्ति तस्य प्रभेदाः॥ "पुग्गला चउहे" त्यादि वक्ष्यमाणमत्रापि सम्बध्यते, ततः पुद्गलानां चत्वारो भेदाः स्युः, तद्यथा-स्कंधो देशः प्रदेशः परमाणुश्च, तत्र व्यणुकादयः क्रमेण एकाणुकादिवृद्ध्या अनन्ताणुकाऽवसाना अनन्तसंख्याकाः स्कन्धाः, तेष्वेव स्कन्धेषु कल्पिता व्यणुकत्र्यणुकादयः कियन्तो भागा देशा उच्यन्ते, तेष्वेव स्कन्धेषु देशेषु वा कल्पितास्तेषां निर्विभागा भागाः प्रदेशाः कथ्यन्ते, परमाणवस्तु पुनः स्कन्धेषु देशेषु वा असंबद्धाः स्कंधादिका| रणरूपा अतीवसूक्ष्मा निर्विभागभागा ज्ञातव्याः । इत्येवं सर्वमिलनेज्जीवस्य चतुर्दशभेदा भवन्तीति गाथाक्षरार्थः॥
व्यासार्थस्त्वयम् ;-अस्मिल्लोके पद्रव्याणि वर्त्तन्ते, ये केचन जगति पदार्था दृष्टिपथं समायान्ति केचित्तु चक्षुर्गोच
503३卐卐z卐0)卐-卐!
>卐
-5
<3
२४॥
>