________________
2
॥ अथाऽजीवतत्त्वम् ॥
- 37
卐949卐zyo卐卐
ज्ञानाऽऽवारककर्मसंक्षयजनुर्येषामनन्ताऽमलं, ज्ञानं दर्शनरोधकृद्ध्यपचयाऽवस्थेन सद्दर्शनम् । दुर्जय्यं दुरितं च मोहनृपति जित्त्वाऽऽपि यैरक्षयं, चारित्रश्च भवान्तकृच्छिववरं सिद्धास्सदा पान्तु वः॥१॥
पूर्वोक्तगाथासप्तकेन जीवतत्त्वं व्याख्याय " यथोद्देशं निर्देश" इति न्यायेनाऽधुनाऽजीवतत्त्वं व्याचिख्यासुराचार्यपुरन्दरः प्रथमं तावदजीवतत्त्वस्य चतुर्दशभेदप्रतिपादिकामिमां गाथामाहधम्माऽधम्माऽऽगासा, तिय तिय भेया तहेव अद्धाय ।खंधा देस पएसा, परमाणु अजीव चउदसहा ६
व्याख्या-'धम्म'इत्यादि धारयति गतिपरिणतान् जीवपुद्गलाँस्तत्स्वभावत्वे इति धर्मः । अस्तयः प्रदेशास्तेषां कायः