________________
श्रीनवतत्त्व सुमङ्गलाटीकायां
जीवतत्त्वसमाप्तिः॥
॥२३॥
izs>y)-卐g
सेसा मुणेयव्वा"॥१॥ के जीवाः कदाज्युबन्धं कुर्वन्तीति परिप्रश्ने उचरमाहः-नारका देवा असंख्यवर्षायुष्कतिर्यमनुष्याश्च विद्यमानायुषष्पण्मासाऽवशेषे पारभविकमायुर्बध्नन्ति । निरुपक्रमायुष्मन्तः पृथ्वी-अप-तेजो-वायु-वनस्पतिकायिका द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः पञ्चेन्द्रियाश्च स्वायुषस्त्रिभागाऽवशेषे सति आगामिभवायुर्वन्धं विदधति । सोपक्रमायुष्कास्तु सर्वेऽपि निजनिजायुपविभागाऽवशेपे नवमभागाऽवशेषे सप्तविंशतितमभागाऽवशेषे एकाऽशीतितमभागाऽवशेषे अन्तर्मुहर्चाऽवशेषे वा पारभविकमायुर्वघ्नन्ति । उक्तश्च;-" बंधंति देवनारय-असंखनरतिरि छमाससेसा उ । परभविया उ सेसा निरुवक्कमत्तिभागसेसा उ ॥१॥ सोवकमाउया पुण सेसतिभागे अहव नवभागे । सत्तावीस इमे वा अन्तमुहुत्तंतिमे वावि" ॥२॥ इत्यायुर्नामको दशमः प्राणो व्याख्यातः, एवञ्च " पणिंदिय" ति गाथाऽपि व्याख्याता । इति जीवतत्त्वम् ॥ व्याख्यातं जीवतत्त्वं, लेशतस्सुमन्दधिया मयका । तेनाऽस्तु भव्यसंघो ज्ञानात्मकजीवतत्त्वयुतः ॥१॥ इति संविज्ञशाखीय-विद्वदवदावतंस-कुमतध्वान्ततरणि-मुनिचक्रचुडामणि-तपागच्छगगनदिनमणि श्रीमन्मुक्तिविजय [अपरनाममूलचन्दजी गणिपादपद्मचंचरीक-सर्वज्ञशासनगभस्तिमालि-निरवद्यचारित्रशालि-तपागच्छाचार्यपुरंदर-श्रीमद्विजयकमलसूरीश्वरपट्टोदयाद्रिसहस्रांशु-अमेयप्रभावप्रवचनप्रवीणचेतस्काऽनवद्यसंयमसेवाहेबाक व्याख्याप्रज्ञाऽऽचार्यवर्यश्रीमद्विजयमोहनसूरीश्वरविनेयरत्न-गीतार्थवर-पाठकप्रवरोपाध्यायपदालङ्कत-श्रीमत्प्रतापविजयगणिशिष्याणुप्रवर्तक
श्रीधर्मविजयविरचितायां नवतत्त्वप्रकरणस्य सुमङ्गलाटीकायां जीवतत्त्वं समाप्तम् ॥
म卐y卐z309<s-<
पा
॥२३॥