________________
N
A
-- 55
A
T
वृद्धौ हेतवो वर्त्तन्ते न वा ? अत्रोच्यते, यथोपक्रमाः खलु आयुषः क्षये निमित्तीभूता वर्त्तन्ते एवमायुषो वृद्धौ उपाया न विद्यन्ते, गतजन्मनि यदायुर्यत् स्थितिपरिमितं बद्धं तत् समयमात्रेणाऽपि कालेनाऽनुत्तरवीर्यशालिनस्तीर्थकरा अपि वर्धयितुं न सामर्थ्यभाजः । यद्यप्युद्वर्त्तनाकरणेन यथा ज्ञानाssवारकादिकर्म्मणां स्थितिरसयोर्वृद्धिः संजायते एवमायुः कर्म्मणोऽपि - स्थितिरसे वृद्धिमती भवतः परं सा वृद्धिर्बन्धं यावदेव प्रवर्त्तते न परतः, तथा चोक्तं श्रीशिवशर्मसूरिमतल्लिकाभिः कर्मप्रकृतौ उद्वर्त्तनाकरणे ' आबन्धाउवट्टइ ' त्ति ॥
ननु अपवर्त्तनीयानपवर्त्तनीय भेदलक्षणतारतम्येन आयुर्बध्यते तत्र को हेतुः ? उच्यते, आयुर्बन्धाऽवसरे यदि आयुर्बन्धप्रायोग्यास्तथाविधतीवाऽध्यवसाया भवेयुस्तदा तैस्तीत्राऽध्यवसायैर्गृहीता आयुः कर्म्मपुद्गलाः केषुचिद् आत्मप्रदेशेषु अतिपिण्डिता भवन्ति, अतः स आयुःकर्म्मपिण्ड उपक्रमैरभेद्योऽस्ति । एतत्प्रकारकं यदायुस्तदनपवर्त्तनीयम् ॥ आयुर्ब|न्धकाले यदि मन्दाध्यवसायाः स्युस्तदा तैर्मन्दपरिणामैरुपात्ता आयुः कर्म पुद्गलास्सर्वाऽऽत्मप्रदेशेषु अतिविरलतया विभिन्ना भवन्ति, तस्मात् ते पुद्गला उपक्रमसाध्याः पिण्डितत्त्वाऽभावात् । एतदपवर्त्तनीयमायुः ॥ अयमर्थः श्रीतत्त्वार्थवृत्तौ विस्तरेण प्रपश्चितः, जिज्ञासुभिः शेमुषीवद्भिस्ततोऽवलोकनीयः ।। पूर्वोक्तनिरुपक्रमानपवर्त्तनीय-सोपक्रमानपवर्त्तनीय-सोपक्रमापवर्त्तनीय लक्षणेषु त्रिप्रकारेष्वायुःषु के जीवा कस्मिन्नायुषि वर्त्तन्ते तच्चिन्त्यते ; — सर्वे देवाः सर्वे नारका असंख्येयवर्षायुष्का युगलिकतिमनुष्या बलदेवा वासुदेवाश्चक्रवर्त्तिनो गणधरास्तीर्थंकराश्चरमशरीरिणश्च निरुपक्रमाऽनपवर्त्तनीयप्रकारकायुभाजी भवन्ति, शेषाश्च त्रिप्रकारकायुष्मन्तो भवन्ति, यदुक्तं - “ उत्तमचरमसरीरा सुरनेरइआ असंखनरतिरिआ । हुंति निरुवकमाओ दुहावि
תכן
SUM<5NSA