SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 卐z श्रीनवतत्त्व सुमङ्गलाटीकायां॥२२॥ जीवतत्त्वे प्राणव्याख्याया मायुः॥ | यत आयुःपुद्गलद्रव्यसद्भावे एव जीवो जीवितुं शक्नोति नान्यथा । अथवा शतहस्तपरिमिता दीर्घा रज्जुरेकपर्यन्ताद्दग्धा सती क्रमशः अतिविलम्बेनाग्निना दह्यते, सा एव कुण्डलीकृता दग्धा सती तूर्णमेव भस्मसाद् भवति, एवमायुःपुद्गलानां क्रमेण क्षये संजायमाने यावत् परिमितमायुः तावत् कालपर्यन्तं जीवेन जीव्यते, परं यदि प्रतिसमयं विशेषविशेषतरपुद्गलक्षयलक्षणा उपक्रमप्रभवा परिपाटी स्यात्तदा तु अन्तर्मुहूर्त्तमात्रेणाऽपि कालेन निःशेषपुद्गलानां क्षये सति आयुषस्समाप्तिः शीघ्रं संजायते ॥ शस्त्रादिबाह्यनिमित्तेन यस्यायुषः क्षयः स्यात् तत् सोपक्रममायुः, अथवाऽऽयुषः समाप्त्यनेहसि यत्र किञ्चिदपि बाह्यं निमित्तं भवेत् तत् सोपक्रमसंज्ञकमायुः । यस्यायुषः समाप्तिकाले बाह्यनिमिचं न किञ्चिदपि प्रतिभाति, परमायुःक्षय एव यत्र कारणं तन्निरुपक्रमाख्यमायुः । उक्तस्वरूपमनपवर्तनीयमायुः सोपक्रमनिरुपक्रमभेदभिन्नम् । अपवर्जनीय तुं सोपक्रममेव । आयुःक्षयहेतव उपक्रमा अध्यवसान-निमित-आहार-वेदना-पराघात-स्पर्श-श्वासोच्छ्वासप्रकारैः सप्तविधाः, तथा चाहुः श्रीपूज्याः;" अज्झवसाणनिमिचे आहारे वेयणा पराघाए । फासे आणापाणु सचविहं झिज्झए आऊ"॥१॥ सोपक्रममायुष्कं वेदनयास्य मृच्छतो जन्तोः। बन्धप्रायोग्याभ्यां विगच्छति स्नेहरौक्ष्याभ्याम् ॥१॥ निरुपक्रमं तु न तथाऽऽयुष्कं दृढसंहितं यदिष्टं तत् । नन्वग्न्याद्यैरनुपक्रम्यं कंकटुकमपरान्नम् ॥ २॥ आयुष्कस्याऽवयवा बन्धनमुक्ता जटन्ति ते तस्मात् । आद्रोद् वस्त्राद्यद्वत प्रशोष्यमाणाजलावयवाः ॥३॥ प्राणाऽऽहारनिरोधाऽध्यवसायनिमित्तवेदनाघाताः। स्पर्शवायुभेंदे, सप्तैते हेतवः प्रोक्ताः ॥४॥" ननु आयुषः क्षये उपक्रमा हेतुत्वेन व्याख्याताः, एतैरध्यवसानाद्यैरुपक्रमैरायुः त्वरितं क्षयं यथा प्रामोति, तथाऽऽयुषो 卐卐卐yz903) ॥२२॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy