SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ N क V ב A 凯 T U वक्ष्यमाणप्रकारेण द्रव्यायुषस्समाप्तिमन्तरेण कदाचिदपि जीवो मरणं नावाप्नोति परं कालायुस्तु यद्यपवर्त्तनीयं विद्यते तदा नियतकालसमाप्तेः प्रागेव जीवो मरणमश्नुते, यद्यायुरनपर्वत्तनीयं तर्हि तु नियतकालसमाप्त्यनन्तरमेव पञ्चत्त्वमानोतीति ॥ अथाऽपवर्त्तनीयाऽनपवर्त्तनीयायुषोः स्वरूपं लिख्यते; — तत्र पूर्वस्मिन् भवे जीवेन तथाविधाऽध्यवसायैरायुषः स्थितिर्विवक्षितकालप्रमाणा एतादृशी शिथिला बद्धा येन शस्त्राद्युपघातप्रसङ्गे सति पूर्वभवबद्धाया आयुषः स्थितेः समापनात् प्रागेव M मरणमश्नुते, तथाप्रकारकं यदायुस्तदपवर्तनीयमुच्यते, तथा च मौनीन्द्रं प्रवचनम् ; - “ अपवत्तणिजमेयं आउं अहवा असेस कम्मंपि । बंधसमए विबद्धं सिढिलं चिय तं जहाजोगं " ॥ १ ॥ तथा प्राग्भवे जीवेन तथा प्रकारैरध्यवसायैरायुः कर्म्मणः A स्थितिरेतादृशी निवडा बद्धा येन शस्त्राद्युपघातप्रसङ्गेऽपि प्राग्जन्मोपात्ता स्थितिः समयमात्रेणाऽपि न्यूना न भवति, एतादृग् यदायुस्तदनपवर्त्तनीयम् । तथाचोक्तं; - "जं पुण गाढनिकायण बंधेण पुव्वमेव किल बद्धं । तं होइ अणपवचणजुग्गं कम्मवेयणि- N जफलं ॥१॥ इति पूर्वोक्तस्वरूपे अपवर्त्तनीयाऽनपवर्त्तनीये आयुषी कालायुप एव भेदौ भवतः, न तु द्रव्यायुषः, यथा सुदीर्घमपि कालापवर्त्तनीयं सत् स्वल्पमपि भवति, एवं द्रव्यायुर्न भवत्येव, द्रव्यायुषः समाप्त्यननन्तरमेव जीवः पञ्चत्त्वं प्राप्नोति । A S ननु आयुषः कर्मत्वात् तस्य च पुद्गलात्मकत्त्वादायुरपि पुद्गलस्वरूपम्, स्थितिरपि आयुः पुद्गलानामेव, ततो निखिलानामायुःपुद्गलानां क्षयेऽपि विवक्षिता स्थितिर्न समाप्ता इत्येतत्कथं ? सत्यम्, उच्यते ; - यथा प्रदीपस्य वर्त्तिकायां वृहत्यां A कृतायामन्तर्वर्त्तिस्नेहस्य शीघ्रेण क्षये जाते प्रदीपे निर्विण्णे सत्येवमुच्यते यदयं प्रदीपोऽल्पकालमेवाऽज्वलत्, तद्वदायुषो निखिलपुद्गलानां वक्ष्यमाणोपक्रमैः शीघ्रेण क्षये सति कालाऽयुषो ऽपवर्त्तनीयत्वादपूर्णकालेऽपि जन्तूनां मरणं दृष्टिगोचरं भवति, A
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy