SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ z > श्रीनवतत्त्वसुमङ्गलाटीकायां जीवतत्त्वे प्राणव्याख्यायां उच्छवासः॥ < ॥ २१॥ - संख्येयभागप्रमाणोचे भवतः। इति शरीरस्वरूपस्य दिङमात्रमिदम् , विस्तरस्तु श्रीप्रज्ञापना-तत्त्वार्थ-लोकप्रकाशादिभ्योऽबसेयः ॥ पूर्वोक्तपश्चशरीरद्वारा जीवस्य यो व्यापारः स कायबलनामाष्टमः प्राणः॥ उच्छ्वासनामकर्मोदयतः उच्छ्वासपर्याच्या पर्याप्तो जीवः काययोगेन उकासयोग्यपुद्गलद्रव्यानादाय उच्छ्वासतया परिणमय्याऽवलम्ब्य च मुञ्चति स उच्छ्वाससंज्ञको नवमः प्राणः। उच्छ्वासनामकर्मोदयेन जीव उच्छ्वासलब्धिं प्रामोति, उच्छ्वासपर्याप्त्या तु उच्छ्वासयोग्यपुद्गलद्रव्यानादाय उच्छ्वासत्त्वेन परिणमयितुं समर्थो भवति । सत्यामपि उच्छ्वासलब्धौ पर्याप्तिजन्यसामर्थ्य विना परिणमनाऽऽलम्बनादिषु प्रवृत्तिर्नहि भिवति । बाणप्रक्षेपविद्यायां निष्णातोऽपि धनुर्ग्रहणादिव्यापारमृते बाणप्रक्षेपशक्तिं न सफलां करोति, एवमत्राऽपि उच्छ्वासपर्याप्तिजन्यशक्तिमन्तरेण केवलयोच्छ्वासलब्ध्या कार्य न सिद्ध्यति । अयमुच्वासो बाह्याऽभ्यन्तरभेदभिन्नः, ये एकेन्द्रियद्वीन्द्रिया विना घ्राणेन्द्रियमुच्सन्ति निःश्वसन्ति स आभ्यन्तर उच्वासः, ये च पिपीलिकादयस्त्रीन्द्रिया भ्रमरादयश्चतुरिन्द्रिया मनुजप्रभृतिपञ्चेन्द्रियाश्च नासिकया उच्चसन्तो निःश्वसन्तो वा दृश्यन्ते तेषां य उच्छ्वासः स बाह्यः । अयमुच्छ्वासः पुद्गलविकारजः, अतिसूक्ष्मपरिणामवत्त्वानेन्द्रियप्रत्यक्षः परमवश्यं ज्ञानगोचरः॥ येन प्राणविशेषेण प्रतिनियतभवे नियतकालपर्यन्तं यदवस्थानं तदायुः, अथवा परभवे एव जीवं प्रतीत्य उदयमेतीति आयुः, एतदायुः पुद्गलद्रव्यनिचयात्मकं येन पुद्गलद्रव्यनिचयोदयेन जीवो जीवति । एतच्च द्विधा-द्रव्यायुः कालायुश्च, आयु:कर्मणो ये पुद्गलास्तद् द्रव्यायुः, तेलाभावे दीपो यथा न प्रकाशते तद्वदायुषः पुद्गलानामभावे प्रतिनियतभवे जीवो जीवितुं न शक्नोति । आयुःकर्मापुद्गलानां साहाय्येन नियतकालपर्यन्तं यावजीवेन जीव्यते स जीवनकालः कालायुर्नाम्ना प्रोच्यते, ' - <) ॥२१ >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy