SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ A कृद् उत्पत्तिप्रथमसमये आहारग्रहणक्रियायां हेतुत्वमपि भजति ।। शरीरपञ्चकमध्ये औदारिकशरीरं शेषश्रीरचतुष्काऽपेक्षया स्थूलपुद्गलद्रव्यैर्निष्पन्नम् । वैक्रियशरीरं ततः सूक्ष्मपुद्गलद्रव्यैर्निष्पन्नम् । तत आहारकशरीरं सूक्ष्मतरपुद्गलद्रव्यैस्सआतं, ततोऽपि तैजसशरीरं सूक्ष्मतम पुद्गलद्रव्यैर्निष्पद्यते, ततोऽपि कार्म्मणशरीरस्याऽतीवसूक्ष्मतम पुद्गलद्रव्यैर्निष्पत्तिश्च सिद्धान्ते सुख्याता ॥ अथ कस्मिन् शरीरे कति परमाणवस्तच्चिन्त्यते ; - औदारिकशरीरमत्यत्पपरमाणुभिर्निष्पन्नम्, वैक्रियं च ततोऽसंख्येय गुणपुरधू माणुपरिकलितम्, ततोऽप्याहारकशरीरमसंख्यगुणपरमाणुभिस्संजायते, ततोऽपि तैजसशरीरमनन्तगुणपरमाणुभिर्निष्पद्यते, A ततोऽप्यनन्तगुणपरमाण्वात्मकं कार्म्मणशरीरं च भवति ।। अथैतेषां शरीराणां स्वामिनः प्रोच्यन्ते; औदारिकशरीरं एकेन्द्रियगतसूक्ष्मनिगोदादिसर्वतिरश्चां निःशेषमनुष्याणाञ्च विद्यते, वैक्रियशरीरं सर्वदेवनारकाणां वैक्रिय- 5 T लब्धिमतां गर्भजमनुजानां गर्भजतिरथां च वर्त्तते, केषाञ्चिद् बादरवायुकायिकानामपि वैक्रियं शरीरं भवति, आहारकशरीरं तु आहारकलब्धिभाजां चतुर्दशपूर्वविदां संयतानामेव नान्येषां वर्त्तते, आमुक्तेः सर्वे जीवाः तैजसकार्म्मणशरीरभाज- ह A स्सर्वदैव लभ्यन्ते ।। अथौदारिकादिशरीरप्रमाणं; - औदारिकशरीरं ( प्रत्येकवनस्पतिशरीराऽपेक्षया) सहस्रयोजनप्रमाणो- G कच्चम् । वैक्रियं तु चतुरङ्गुलाधिकैकलक्षयोजनपरिमितं, आहारकशरीरमेकहस्तप्रमाणं, तैजसकार्म्मणे तु चर्तुदशरज्वात्मकलोक- 5. T प्रमाणे भवतः, एतच्चोत्कृष्टतो विज्ञेयं, जघन्यतस्तु औदारिकमङ्गुलाऽसंख्येयभागप्रमाणं, वैक्रियमपि अङ्गुला संख्येयभाग- A परिमितं, उत्तरवैक्रियाऽपेक्षया चङ्गुलसंख्येयभागो विज्ञेयः, आहारकशरीरं बद्धमुष्टिकहस्तमितं, तैजसकार्मणे अङ्गुला - १ अनेनेस्थं न ज्ञेयं यत् सर्वे जीवा मुक्तिगामिनः, ये भव्या मुक्तिगामिनस्तेषामामुक्तेः अन्येषां तु सदैव इति ॥ SUSAN V
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy