________________
izs
श्रीनवतत्त्व सुमङ्गलाटीकायां
जीवतत्त्वे प्राणव्या
ख्यायां कायबलम्।।
>
॥२०॥
<
पुद्गला वक्तृमुखमादौ कृत्वा लोकान्तं यावत् स्पृशन्ति इति जीवभाषास्वरूपम् ॥ अजीवभाषास्वरूपं तु पुद्गलपरिणामव्याख्याऽवसरे व्याख्यास्यामो वयमिति वचनबलसंज्ञकः सप्तमः प्राणः॥ .. अथ कायबलं वर्ण्यते;-शरीरद्वारा वस्तुग्रहणविसर्जनाद्यात्मको यो जीवस्य व्यापारः, अथवा शरीरस्य या शक्तिस्तत् कायबलमुच्यते, तच्च शरीरमौदारिक-वैक्रिया-ऽऽहारक-तैजस-कार्मणभेदेन पञ्चधा । तत्रौदारिकशरीरप्रायोग्यपुद्गलद्रव्यैनिष्पन्नमौदारिकशरीरम् , अथवा रसाऽमृङ्मांसमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुभिर्निष्पन्नं यच्छरीरं तदौदारिकम् अथवा तीर्थकर-गणधर-चक्रि-वासुदेवप्रभृतीनामुदारगुणवतां महात्मनां यच्छरीरं तदौदारिकमुच्यते । विविधप्रकारकाः क्रियाः कर्तु समर्थ यच्छरीरं तद्वैक्रिय, यतोऽनेन शरीरेण जीवः कदाचिद् गगनगामी कदाचिच्च भूगामी भवति, एको भवति अनेकेपि । भवन्ति, गुरुर्भवति लघुरपि भवति, महान् भवति, अल्पोऽपि भवति, दृश्यो भवति अदृश्येनापि भूयते इत्यादिका नाना प्रकारकाः क्रिया अनेन शरीरेण कर्तुं प्रभवति जीवः। अथवा वैक्रियप्रायोग्यपुद्गलद्रव्यनिष्पन्नं यच्छरीरं तद्वैक्रियमुच्यते ॥ तथाविधाऽऽहारकलब्धिभाक् चतुर्दशपूर्ववित संयमी प्रमत्तगुणस्थानवी परमपारमैश्वर्योपेतश्रीतीर्थकरादीनां प्रभुत्वं द्रष्टुं सूक्ष्मार्थविचारणाऽवाप्तसंदेहदोलाधिरूढस्य मनसस्समाधिं विधातुं वा तथाप्रकारकाऽऽहारकशरीरप्रायोग्यपुद्गलद्रव्यैर्नृतनं यच्छरीरं विरचय्य तीर्थकरसमीपे प्रेषयति तदाहारकशरीरम् ॥ जग्धाहारस्य पाचकं तेजोलेश्या-शीतलेश्यानिमित्तं वा तैजसशरीरप्रायोग्यपुद्गलद्रव्यनिष्पन्नं यच्छरीरं तत्तैजसनाम । मतिज्ञानावरणीयाद्यष्टपञ्चाशदधिकशतकर्मप्रकृतीनां पिण्डाऽऽत्मक यच्छरीरं तत्कार्मणशरीरं, एतत् कार्मणशरीरमात्मानमन्यवपुश्चतुष्कञ्चोत्पादयति, भवाद् भवान्तरं गच्छतो जीवस्य साहाय्य
j03३39290923-
卐
<
>
२०॥
<!
!