SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ASTAA सुखदुःखाद्यनुभवलक्षणं मनोज्ञानं सर्वाऽऽत्मप्रदेशेषु संजायते, यच्च सर्वत्राद्याऽऽभ्यन्तरदेहव्यापिस्पर्शनेन्द्रियेण सर्वप्रदेशेषु स्पर्शज्ञानं प्रादुर्भवति तदपि सर्वात्मप्रदेशव्यापिना मनसा विना न संजाघटीति, तस्मान्मनस एकदेशस्थितिकल्पनमयुक्तम् ।। द्रव्य - भावात्मकस्य द्विप्रकारकस्याऽपि मनसो व्यापारस्तन्मनोबलम् || अथ सप्तमो वचनबलाssव्यः प्राणः; - भाषापर्याप्तनामकर्मोदयेन काययोगद्वारा भाषाप्रायोग्य पुद्गलद्रव्यान् आदाय भाषात्त्वेन परिणमय्याऽवलम्ब्य च वागयोगेन या विसर्जनशक्तिस्तद्वचनबलमुच्यते, अथवा शब्दोच्चारणलक्षणा जीवस्य या शक्तिस्तदपि वागवलं प्रकीर्त्यते । इयं पूर्वोक्तस्वरूपा भाषा जीवभाषात्त्वेन भण्यते, अजीवद्रव्योत्पन्ना अव्यक्तशब्दलक्षणा भाषा अजीवभाषात्वेन कथ्यते । द्विप्रकारकाऽपीयं भाषा पुद्गलद्रव्यसंघातनिष्पन्ना । तार्किकास्तु शब्दं नभोगुणत्वेन ख्यापयन्ति तन्न युक्तम्, यतो वायुना ऊह्यमाना, धूम्र इव संहियमाणा, जलमित्र द्वारं प्रति अनुत्रियमाणा, वायुरिव गुहादिषु प्रतिस्खल्यमाना विविधक्रियालक्षणा भाषा प्रत्यक्षमनुभूयते, विशिष्टाः क्रियाश्च विना पुद्गलद्रव्यं न भवन्ति, अत एव भाषा पुद्गलद्रव्यनिष्पन्ना मूर्त्तिमती च, नभस्त्वक्रियममूर्त्तञ्च ततो द्विधाऽपि भाषा पुद्गलविकारजा, परं न नभोगुणरूपा ॥ प्रथमे समये जीवो भाषापुद्गलानादचे, द्वितीये च समये तान् भाषायोग्यपुद्गलान् भाषाच्वेन परिणमय्याऽवलम्ब्य च विसृजति एवञ्च एकसमयात्मिका भाषायाः स्थितिः, सततभाषणात्मकप्रवाहापेक्षया तूत्कर्षतोऽन्तर्मुहूर्त्तं यावदपि स्थितिः । पुनर्जीवो यहिसन्मुखो वक्ति तस्यां दिशि स्थिता अन्ये श्रवणलब्धिभाग्जीवास्तां वक्तुमुखनिसृतां मूलभाषां शृण्वन्ति, मूलभाषापुद्गलैश्व वासितामपि शृण्वन्ति परं शेषासु दिक्षु स्थिता जीवा मूलभाषापुद्गलद्रव्यैर्वासितामेव भाषां शृण्वन्ति न मौलाम् । एते भाषा SUMAZA
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy