________________
श्रीनवतत्त्वसुमङ्गलाटीकायां
जीवतत्त्वे प्राणव्याख्यायां मनोबलम्॥
॥१९॥
व्यायते; येन द्रव्यविशण गर्भजानामौपपातिकदेवमानोयोग्यपुद्गलद्रव्यान
zyyy-<-><
अस्मिल्लोके कर्णेन्द्रियसंख्या सर्वाल्पा, ततश्चतुरिन्द्रियसंख्या विशेषाधिका, ततो घ्राणेन्द्रियसंख्या विशेषाधिका, ततो रसनेन्द्रियसंख्या विशेषाधिका, ततोऽपि स्पर्शनेन्द्रियसंख्याऽनन्तगुणा इति ॥ पुनर्ये संशिजीवास्ते तु इन्द्रियेण तत्तद्विषयं गृहीत्वा मनोद्वारा एव विषयस्वरूपं जानन्ति, परं मनस्साहाय्यं विना संज्ञिजीवानां केवलेनेन्द्रियेणैव विषयावबोधो न संजायते । इतरेषामसंज्ञिनां तु मनसस्साहाय्यं विनैव केवलमिन्द्रियद्वारा एव विषयज्ञानं सञ्जायत इतीन्द्रियस्वरूपम् ॥
अथ मनोबलनामा षष्ठः प्राणो व्याख्यायते;-येन द्रव्यविशेषेण संज्ञिजीवाश्चिन्तनात्मकं व्यापारं कर्तुं प्रभवन्ति तन्मन उच्यते, एतन्मनो मनोवर्गणागतपुद्गलद्रव्यैर्निष्पद्यते, पुनरेतन्मनो गर्भजानामौपपातिकदेवनारकाणाश्च वर्त्तते नान्येषाम् । एतच्च मनो द्रव्यभावभेदात् द्विविधम् ॥ तत्र मनःपर्याप्तनामकम्मोदयेन काययोगद्वारा मनोयोग्यपुद्गलद्रव्यान् आदाय चिन्तनात्मकव्यापारप्रवृत्तमनोयोगेन तान् मनोयोग्यपुद्गलद्रव्यान् चिन्तन-मननव्यापारसाधनतया परिणमय्याऽवलम्ब्य च विसृजति ते पुद्गला एव द्रव्यमनस्त्वेन प्रोच्यन्ते, तथा चोक्तं श्रीनन्द्यध्ययनचूर्णी:-मणपजतिनामकम्मोदयतो जोग्गे मणोदब्वे घेत्तुं मणत्तेण परिणामिया दवा दव्बमणो भन्नई"त्ति ॥ द्रव्यमनोरूपपुद्गलसमूहस्याऽऽलम्बेन जीवस्य यश्चिन्तनात्मको व्यापारस्तद् भावमनः कथ्यते, तदुक्तं श्रीनन्द्यध्ययनचूर्णी-" मणदब्बालंबणो जीवस्स मणवावारो भावमणो भन्नइ " ति ॥ अतो द्रव्यमनसा विना विशिष्टभावमनो न घटते, भावमनसा विना द्रव्यमनस्त केवलिनां घटते । दिगम्बरास्त्वेतत् पूर्वोक्तं द्रव्यमनः अष्टदलपद्माकारकं हृदयस्थं मन्यन्ते, परं तन्न समीचीनम् । यत एकदेशस्थमनःकरणेन सर्वात्मप्रदशेपूपयोगप्रवृत्तिने संभवति, उपयोगप्रवृत्तिस्तु सर्वाऽऽत्मप्रदेशेषु विलोक्यते, ततो मनसः एकदेशस्थितिकल्पनाऽकल्पनीया, यच्च पुनः
103432yz卐0)<y
॥१९॥