________________
A
節 प्यागतान् । परत आगतानां मन्दपरिणामवत्त्वात् ॥ पदार्थवर्त्तिनस्तिक्त-कटु- कषाया - ऽऽम्ल - मधुरलक्षणाः पञ्चरसा रसनेन्द्रियविषया वर्त्तन्ते, तेऽपि उत्कर्षतो नवयोजनेभ्य आगता एव विज्ञायन्ते न परत आगताः । पुद्गलस्थितौ सुगन्धदुर्गन्धलक्षण गन्धौ घ्राणेन्द्रियगोचरौ तावपि उत्कर्षतो नवयोजनेभ्य आगतावेव परिच्छिद्येते । तथा पुद्गलवर्त्तिनश्शुक्लकृष्णरक्तादयो वर्णाः पुद्गलस्थितप्रतिनियतसंस्थानानि च चक्षुरिन्द्रियस्य विषयत्त्वेनोररीक्रियन्ते, चक्षुरिन्द्रियमुत्कर्षतः सातिरेकाद् योजनशतसहस्रादारभ्य कटकुय्यादिभिरव्यवहितानस्पृष्टान् दूरस्थितान् अभास्वरपुद्गलान् पश्यति, भास्वरचन्द्रसूर्यादयस्तु अनेकैलक्षयोजनादपि दृश्यन्ते । तथा सचित्ताऽचित्तमिश्रभेदभिन्नाश्शब्दाः श्रोत्रेन्द्रियगोचराः, ते च शब्दा उत्कर्षतो द्वादशयोजनेभ्य आगताच श्रूयन्ते न परतस्समागताः, परत आगतानां तेषां मन्दपरिणामवत्त्वात्, तथाहि ; - परत आगताः खलु ते शब्दपुद्गलास्तथास्वाभाव्यान्मन्दपरिणामास्तथोपजायन्ते येन स्वविषयं श्रोत्रज्ञानं नोत्पादयितुमीश्वराः, श्रोत्रेन्द्रियस्याऽपि च तथाविधमद्भुततरं बलं न विद्यते येन परतोऽप्यागतान् शब्दान् शृणुयादिति । जघन्यविषयग्रहणक्षेत्रं तु नयनवर्जश्रोत्रादीनां प्राप्तविषयपरिच्छेदकत्त्वात् अङ्गुलाऽसंख्येयभागपरिमितं, ततोऽङ्गुलाऽसंख्येयभागादप्यागतं शब्दादिद्रव्यं परिच्छिद्यते, नयनश्चाऽप्राप्तकारीति तद् जघन्यतोऽङ्गुलसंख्येयभागादव्यवहितं परिच्छिनत्ति; अयमत्राऽऽशयः ;जघन्यतोऽङ्गुलसंख्येयभागमात्रे व्यवस्थितं पश्यति न तु ततोऽवक्रतरम् । प्रतिप्राणिप्रसिद्धश्चायमर्थः तथा च नातिसन्निकृष्टमञ्जनरजोमलादिकं चक्षुः पश्यतीति, उक्तञ्चः - " अवरमसंखेअंगुलभागतो नयणवज्जाणं । संखेज्जंगुलभागो नयणस्स " इति ॥
१ पुष्करार्धक्षेत्रवर्त्तिमनुष्यापेक्षयेदम् ।
US<SN5.