________________
z
>
स्वरूपम् ॥
श्रीनवतत्त्वसुमङ्गलाटीकायां॥१८॥
>卐
-
चक्षुरिन्द्रियपुद्गलयुक्ताऽऽत्मप्रदेशैस्सहिता या आकृतिस्ति तच्चक्षुरिन्द्रियस्थानं, कनीनिकायां सत्यामपि तस्या अभावे नहि द्रष्टुं शक्तो भवति जीवः॥ तथा कर्णपर्पटिकायामन्तःसुषिरभागेऽङ्गुलाऽसंख्येयभागप्रमाणाऽऽभ्यन्तरश्रोत्रेन्द्रियपुद्गलयुक्ताऽऽत्मप्रदेशैरुपेता या आकृतिवर्तते तच्च श्रोत्रेन्द्रियस्थानम् , अनेनैव स्थानेन जीवश्शब्दादिकं शृणोति, इत्येवं बाह्यतो दृश्यमानानि त्वम्-जिह्वा-नासिका-चक्षुः-श्रोत्राणि स्वयं-इन्द्रियस्वरूपाणि न, किन्तु पूर्वोक्ततत्तदाभ्यन्तरेन्द्रियाधाररूपाणीति विज्ञेयम् ॥ अथ बाह्याऽऽभ्यन्तरभेदभिन्नानां पञ्चानामपीन्द्रियाणामाकृतिरुच्यते-तत्र पूर्वमाभ्यन्तरेन्द्रियाऽऽकृतिः कथ्यते;निजनिजशरीरप्रमाणाऽऽकारवत्त्वान्नानासंस्थाना स्पर्शनेन्द्रियाऽऽकृतिः, रसनेन्द्रियाऽऽकृतिः क्षुरप्रसंस्थाना, घ्राणेन्द्रियं कलम्बुकापुष्पसंस्थानम् , चक्षुरिन्द्रियं मसराकारक, श्रोत्रेन्द्रिय तु कदम्बपुष्पाकारकं भवति । एता आकृतय आभ्यन्तरेन्द्रियाणां ज्ञेयाः, ताश्च सर्वजीवेषु समानाः ॥ बाह्येन्द्रियाणां तु भिन्नभिन्नप्रकारकाणि संस्थानान्यवगन्तव्यानि ॥
इदानीमाभ्यन्तरेन्द्रियाणां दीर्घत्वं-पृथुत्त्वं स्थूलत्त्वञ्च लिख्यते, तद्यथाः-स्वस्वशरीरप्रमाणायता, पृथुत्वेनापि स्वशरीरप्रमाणाऽङ्गुलाऽसंख्येयभागमात्रस्थूला स्पर्शनेन्द्रियाऽऽकृतिः । तथा दीर्घत्त्वेन पृथुत्त्वेन चाऽङ्गुलपृथक्त्वप्रमाणाऽङ्गुलाऽसंख्येयभागस्थूला रसनेन्द्रियाऽऽकृतिः । घ्राणेन्द्रियाकृतिश्च दीर्घत्वेन पृथुत्त्वेन स्थूलत्वेन चाऽङ्गलाऽसंख्येयभागपरिमिता । एवं चक्षुःश्रवणेन्द्रियाकृतिरपि अङ्गुलाऽसंख्येयभागप्रमाणा दीर्घत्व-पृथुत्त्व-स्थूलत्वैश्च वर्तते इति ।। अधुनेन्द्रियाणां विषयाः विषयग्रहणञ्च क्षेत्रं प्रदश्यते । द्रव्यवर्तिनः स्निग्ध-लक्ष-शीत-ऊष्ण-मृद-कर्कश-गुरु-लघुलक्षणा अष्टसंख्याकाः स्पशाः स्पर्शनेन्द्रियगोचरा भवन्ति, तान् स्पर्शानुत्कृष्टतो नवयोजनेभ्य आगतान् द्रव्यान्तरैरप्रतिहतशक्तिकान् जानाति न परतोऽ
>卐
-
<卐
॥१८॥
>卐