________________
<>yz
>
>y -
चक्षुषः कृष्णशुक्लमण्डलं, बाह्यमुपकरणेन्द्रियं पत्रपक्ष्मद्वयादि ज्ञेयम् । एवं शेषेष्वपि संभावनीयम् । सत्यामपि बाह्याऽऽभ्यन्तरभेदभिन्नायां निवृत्ती उपकरणेन्द्रियस्योपघातान्न जीवो द्रष्टुं पारयति ।। भावेन्द्रियमपि लब्ध्युपयोगभेदाद् द्विधा, तत्र ज्ञानदर्शनावरणक्षयोपशमानुसारिणीन्द्रियद्वारा स्वस्वविषयग्राहिणी या शक्तिस्तल्लब्धिद्रव्येन्द्रियमिति कथ्यते, तथा जीव इन्द्रियद्वारा स्वस्वविषयग्रहणक्रियायां प्रवर्त्तते तदुपयोगभावेन्द्रियमुच्यते । पूर्वोक्ता ज्ञानदर्शनावरणक्षयोपशमानुसारिणी लब्धिस्तु प्रतिजीवेषु युगपदेव प्रवर्तते, परं विषयाऽवबोधरूपो व्यापारस्तु प्रतिसमयमेकेनैवेन्द्रियेण भवति, अत उपयोगाऽपेक्षया एको जीवो विवक्षितकेन्द्रियोपयोगवानेव वर्तते, अथवा ज्ञानदर्शनाऽऽवरणक्षयोपशमलक्षणा लन्धिस्तु सर्वेष्वप्यकेन्द्रियप्रभृतिषु जीवेषु वर्त्तते, परं द्रव्येन्द्रियं कस्यचिदेकं, कस्यचिच्च द्वे, इति जातिनामकर्मानुसारेण भवति, अतो लब्धीन्द्रियापेक्षया सर्वे जीवा पञ्चेन्द्रियलब्धिऽभाजः। द्रव्येन्द्रियाऽपेक्षया एकेन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्च, उपयोगेन्द्रियाऽपेक्षया वेकेन्द्रियाश्च भवन्ति । अथेन्द्रियाणां स्थानं कुत्र कुत्र विद्यते तच्चिन्त्यतेः-तत्र स्पर्शनेन्द्रियस्थानं सकलं शरीरं, सर्वस्मिन् देहे बाह्यभागोऽभ्यन्तरभागश्चाऽऽभ्यन्तरस्पर्शनेन्द्रियपुद्गलयुक्ताऽऽत्मप्रदेशाप्तो भवतीत्यर्थः॥ तथा मुखे बाह्यनिवृत्तीन्द्रियस्वरूपाया जिह्वा दृश्यते तस्यां जिह्वायामुपरिष्टादधस्ताच्चाऽऽभ्यन्तररसनेन्द्रियपुद्गलयुक्ताऽऽत्मप्रदेशैरुपेतमङ्गुलस्यासंख्यातभागप्रमाणस्थूलमेकं प्रतरं (प्रस्तटं वा) वर्तते, अनेनैव प्रतरखरूपेन्द्रियद्वारा जीवो मधुरतिक्तादिरसं ज्ञातुं समर्थो भवति ॥ तथा नासिकायामुपरिवर्तिसुषिरभागेऽङ्गुलाऽसंख्येयभागमात्रस्थूलमाभ्यन्तरघ्राणेन्द्रियपुद्गलयुक्ताऽऽत्मप्रदेशैस्सहितं स्थानं वर्त्तते येन स्थानविशेषेण गंधविषयं ग्रहीतुमलंभवति जीवः ॥ तथा चक्षुषि कनीनिकान्तः अङ्गुलाऽसंख्येयभागपरिमिताऽऽभ्यन्तर
-
<
>