________________
z
109
इन्द्रिय|स्वरूपम् ॥
श्रीनवतत्त्व सुमङ्गलाटीकायां॥१७॥
>
<'-'
पणिंदियत्तिवलूसा-साऊदसपाण चउ छ सग अट्ठ।इगदुतिचउरिंदीणं, असन्निसन्नीण नव दस य॥७॥
व्याख्या:-'पणिदय'त्ति पञ्चेन्द्रियाणि स्पर्शन-रसन-प्राण-चक्षुः श्रोत्रलक्षणानि, 'तिबल' इति त्रीणि बलानि मनोबल-वाग्बल-कायबलस्वरूपाणि, उच्छ्वासः, आयुश्चेति दश प्राणाः संसारोदरवर्तिजीवबाह्यलक्षणात्मकाः, तेषु च यथासंख्यं चत्वारः षट् सप्त अष्टौ प्राणाः क्रमेणैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां भवन्ति, असंज्ञि-संज्ञिपञ्चेन्द्रियाणाञ्च क्रमेण नव दश च प्राणा वर्तन्ते इति गाथाक्षरार्थः॥
विस्तरार्थस्त्वयम् :-" इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा" (पाणि. अ. ५. पा. २ सू. ९३ ) इति सूत्रेण इन्दनादिन्द्र आत्मा तस्य लिङ्ग करणेन कर्तुरनुमानादिन्द्रियशब्दनिष्पत्तिः। आत्मनो विज्ञानोत्पत्ती यानि प्रकृष्टमुपकारकाणि तान्येवेन्द्रियाणि, तानि च स्पर्शन-रसना-घ्राण-चक्षुः-श्रोत्रलक्षणानि पञ्चधा, तान्यपि द्रव्यभावभेदाभ्यां द्विधा, तत्र द्रव्येन्द्रियं निवृत्युपकरणभेदाद् द्विविधं, पुिनरपि निवृत्तिराभ्यन्तरवाह्यभेदाद् द्विधा । तत्र कर्मणा निवर्त्यत इति निवृत्तिः, उत्सेधाङ्गुलाऽसंख्येयभागप्रमितानां शुद्धानामात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानेनाऽवस्थिता याऽऽभ्यन्तरा स्वस्वविषयज्ञानसमर्था वृत्तिः सा आभ्यन्तरनिर्वृत्तिद्रव्येन्द्रियमित्युच्यते । तेष्वात्मप्रदेशेषु वर्धकीसंस्थानीयेन पुद्गलविपाकिना निर्माणनाम्ना आरचित अङ्गोपाङ्गनाम्ना च निष्पादित इन्द्रियव्यपदेशभाक् कर्णशष्कुल्यादिविशेषो यः प्रतिनियतसंस्थानस्तद् बाह्यनिवृत्तिद्रव्येन्द्रियमुच्यते आभ्यन्तरबाह्यभेदभिन्नायास्तस्या एव निवृत्तेयेनोपकारो विधीयते तदुपकरणम् । तच्चोपकरणमिन्द्रियकार्यजनकं, तदुपकरणमप्याभ्यन्तरबाह्यभेदाद् द्विप्रकारकं, तत्राऽभ्यन्तरोपकरणेन्द्रियं
टाद् द्विविहानामात्मनयमित
zy09
-42
-
॥१७॥