________________
z
>卐
श्रीनवतत्त्वसुमङ्गलाटीकायां
पर्याप्तिस्वरूपम् ॥
<3
॥१६॥
>卐
नभवप्रथमसमक्षन्यूननिजा पर्याप्ती समाधान
-卐
अथ लब्ध्यपर्याप्तादिभेदचतुष्के परस्परं संवेधश्चिन्त्यते-तद्यथा यो लब्ध्यपर्याप्तः स करणापर्याप्तोऽपि भवति, यो लब्धिपर्याप्तम्स करणपर्याप्तः करणाऽपर्याप्तोऽपि वर्तते, यः करणपर्याप्तस्स लब्धिपर्याप्त एव भवति, यः करणाऽपर्याप्तः स लब्धिपर्याप्तो लब्ध्यपर्याप्तो वा विद्यते, एवं परस्परं संवेधो विचारणीयः॥
अथ प्रतिभेदं कालमानमाहः लब्ध्यपर्याप्तस्य भवप्रथमसमयादारभ्याऽन्तर्मुहर्त्तप्रमाणं कालमानमुक्तं, यतो लब्ध्यपर्याप्तस्यान्तर्मुहूर्तादधिकमायुरेव नास्ति । लब्धिपर्याप्तस्य तु भवप्रथमसमयादारभ्याऽऽभवपर्यन्तं यावन्निजाऽऽयुषस्समापनं तावत्प्रमाणं कालमानम् । करणाऽपर्याप्तस्य तु भवप्रथमसमवादारभ्याऽन्तर्मुहूर्त यावत् कालप्रमाणं, यतस्ततोऽनन्तरं लब्धिपर्याप्तो भवति लब्ध्यपर्याप्तो वा । करणपर्याप्तस्यत्वन्तर्मुहर्त्तन्युननिजायुषस्समाप्तिपर्यन्तं कालप्रमाणम् ॥
येच जीवा लब्ध्यपर्याप्तास्तेऽसि आहार-शरीरे-न्द्रियलक्षणास्तिस्रः पर्याप्तीः समापय्यैव कालं विदधति । यतो भवाद्भवान्तरं जिगमिषवो जीवाः पारभविकमायुरबद्धान भवान्तरं संक्रामन्ति, आयुर्वन्धश्चेन्द्रियपर्याप्तिपरिसमाप्तिमृते न भवत्येवेति॥
ननु कति जीवाः पूर्वोक्तप्रकारेण स्खयोग्यपर्याप्तिभिरपर्याप्ता एव म्रियन्ते, केचन च निजप्रायोग्यपर्याप्तीः समाप्तिनीत्वा म्रियन्ते, तत्र को हेतुः?; उच्यते-यैर्जीवर्गतजन्मनि पर्याप्तनामकर्म उपार्जितं ते तु पर्याप्तनामकम्र्मोदयेन खयोग्यपर्याप्तीनां निष्ठां विदधति, यैश्च जीवैर्गतजन्मनि अपर्याप्तनामकर्म बद्धं ते निजभवप्रायोग्यपर्याप्तीनां समाप्ति न कुर्वन्ति ॥
१. अस्यां संवेधचिन्तायां स्वस्खयोग्यनिखिलपर्याप्तिपरिसमाप्तिलक्षणं करणपर्याप्तत्त्वमवसेयम् , न तु इन्द्रियपर्याप्तिसमाप्तिलक्षणं मतान्तरीयमिति ।
.卐卐sy2053-5
>卐
-卐
<
॥१६॥
>