SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ iz < > < - पर्याप्त्योः समकालमेव समाप्तिरभिहिता, अनया विवक्षया तयोरेकत्वमाश्रित्य सुराणां पञ्चपर्याप्तयो व्याख्याताः॥ आसां-पर्याप्तीनां मध्ये एकेन्द्रियाणां प्रथमाश्चतस्रः पर्याप्तयो भवन्ति, द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियलक्षणानां विकलेन्द्रियाणां मनःपर्याप्तिं विना पञ्चपर्याप्तयो वर्त्तन्ते, असंज्ञिपञ्चेन्द्रियाणामपि पञ्च, संज्ञिपञ्चेन्द्रियाणां तु षट् पर्याप्तयस्सन्ति । निजनिजभवयोग्यपर्याप्तीः समाप्तिं नीचा ये जीवाः पञ्चत्त्वं प्राप्नुवन्ति ते पर्याप्ताः, ये च स्वकीयभवप्रायोग्याः पर्याप्तीनं समापयन्ति, प्रागेवाऽऽयुषः क्षयेण मरणमश्नुवते ते अपर्याप्ताः ।। इमौ पर्याप्ताऽपर्याप्तनामानौ द्वौ भेदौ लब्धिकरणाभ्यां पुनद्विप्रकारको, एवञ्च जीवाः पर्याप्ताऽपर्याप्तापेक्षया चतुर्भेदभिन्नास्सञ्जाताः, तद्यथा लब्ध्यपर्याप्ताः १ करणाऽपर्याप्ताः २ लब्धिपर्याप्ताः ३ करणपर्याप्ताश्च ४ । तत्र ये जीवाः स्वयोग्यपर्याप्तीनां समापनात् प्रागेवाऽवश्यं म्रियन्ते, न तु स्वयोग्यपर्याप्तीस्समापयन्ति ते लब्ध्यपर्याप्तसंज्ञकाः, यथैकेन्द्रियाणां चतस्रो भवप्रायोग्याः पर्याप्तयस्तत्र ये एकेन्द्रिया आहारशरीरेन्द्रियाख्यास्तिस्त्रः पर्याप्तीविरचयन्ति, परं प्राणापानपर्याप्तिसमापनात् प्रागेव पश्चतामियन्ति ते लब्ध्यपर्याप्तका भावनीया । एवं द्वीन्द्रियादिष्वप्यूह्यम् ॥ ये च जीवाः पर्याप्तनामकम्र्मोदयेन स्वयोग्यपर्याप्तीः समाप्तिं नीत्त्वैव कालं कुर्वते ते लब्धिपर्याप्ता उच्यन्ते । यैः पुनीवैः स्वयोग्यपर्याप्तयस्समाप्तिं नीताः ते करणपर्याप्ताः, अथवा मतान्तरेण इन्द्रियपर्याप्तिसमाप्त्यनन्तरं सर्वेऽपि करणपर्याप्ताः । यैश्च जीवैरद्यावधि निजभवप्रायोग्यपर्याप्तयस्समाप्तिं न नीता इति वर्तमानकालाऽपेक्षया विचार्यमाणा जीवाः करणाऽपर्याप्ताः कथ्यन्ते । अस्मिने भङ्गे केवलं वर्तमानाऽवस्था एव द्रष्टव्या, भविष्यत्काले लब्धिपर्याप्ताः स्युः लब्ध्यपर्याप्ता वा स्युर्नास्ति तद्विचारणात्र । - > <
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy