SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ z श्रीनवतत्त्वसुमङ्गलाटीकायां॥१५॥ >卐Cyo स्वरूपम् ॥ >卐<y - प्तिर्मनपर्याप्तिरित्येके ॥ व्याख्या ॥ मनस्त्वयोग्यानि-मनोवर्गणायोग्यानि मनःपरिणामप्रत्यलानि यानि द्रव्याणि तेषां ग्रहणनिसर्गसामर्थ्यस्य निर्वर्त्तनक्रियापरिसमाप्तिर्मनःपर्याप्तिरिति " [ श्री तत्त्वार्थवृत्तिः, अष्टमाध्यायः ॥ पूर्वोक्तपर्याप्तिषट्कमध्ये यस्य जीवस्य यति पर्याप्तयस्तासां पर्याप्तीनां युगपदेव प्रारम्भो जायते, समाप्तिस्तु क्रमेण भवति । यत आहारादीनां पर्याप्तीनां पुद्गलाः क्रमशः सूक्ष्मसूक्ष्मतरसूक्ष्मतमपरिणामवन्तः, तच्चैवम्-आहारपर्याप्तेः शरीरपर्याप्तिस्सूक्ष्मपुद्गलद्रव्योपचयघटितत्त्वात् सूक्ष्मा, ततोऽपीन्द्रियपर्याप्तिस्मूक्ष्मतरपुद्गलसमूहरचितत्त्वात् सूक्ष्मतरा, तस्या अपि विशेषसूक्ष्मतरपुद्गलनिचयरचमात्मिका प्राणापानपर्याप्तिः सूक्ष्मतमा, एवमग्रेऽपि परिभाषनीयम् । यथा स्थूलसूत्रकर्तिका सूक्ष्मसूत्रकर्तिकाऽपेक्षया झटिति सूत्रं कर्त्तयति, सूक्ष्मसूत्रकर्तिका सूक्ष्मतरसूत्रकर्तिकापेक्षया शीघ्रं सूत्रं निर्मिमीते एवमत्रापि द्रष्टव्यमिति तत्त्वार्थभाष्यवृत्तावुल्लिखितम् । एवमुपपातक्षेत्रमागतो जीवो युगपदेव खयोग्यपर्याप्तिरचनां प्रारभते, तत्राऽऽहारपयोप्तिस्तु प्रथमे समये एव निष्ठामुपयाति शेषास्त्वन्तर्मुहूर्त्तमात्रकालेन समाप्तिं गच्छन्ति, तद्यथा-आहारपर्याप्तिः समाप्त्यनन्तरमन्तमुहूर्तेन शरीरपर्याप्तिर्निष्ठामेति, शरीरपर्याप्त्यनन्तरमिन्द्रियपर्याप्तिरन्तर्मुहर्तेन पूर्णतां याति, ततोऽन्तर्मुहर्तेन प्राणापानपर्याप्तिः, ततोऽन्तर्मुहुर्तेन भाषापर्याप्तिः, ततो भाषापर्याप्तिसमाप्त्यनन्तरमन्तर्मुहर्त्तमात्रकालेन मनःपर्याप्तिः, सर्वासामपि समाप्तिकालोऽन्तर्मुहुर्तप्रमाणः॥ अयं पूर्वोक्तः क्रम औदारिकशरीरापेक्षया व्यावर्णितः, वैक्रियाऽऽहारकशरीरिणां तु औदारिकशरीवित् आहारपर्याप्तिः प्रथमे समये एव निष्ठामियर्ति, ततोऽन्तर्मुहूर्तेन शरीरपर्याप्तिः समाप्तिमेति, ततस्समयमात्रेणेन्द्रियपर्याप्तिस्ततस्समयमात्रेण प्राणापानपर्याप्तिः, ततस्समयमात्रेण मनःपर्याप्तिः परिसमाप्तिं याति, श्री भगवत्यादौ तु देवानां भाषामन: >卐 > - >卐 >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy