________________
N5A5 A55A55><
SUSANA!
骗
क
॥ व्याख्या ॥ शरीरस्येन्द्रियाणां वाचो मनसः प्राणापानयोश्चाऽऽगमप्रसिद्धवर्गणाक्रमेण यानि योग्यानि दलिकद्रव्याणि तेषामाहरणक्रिया ग्रहणमादानं तस्याः परिसमाप्तिराहारपर्याप्तिः करणविशेषः, अत्र च मनोग्रहणात् परिस्फुटमिन्द्रियग्रहणेन मनसोऽप्युपादानमिति (भाष्यम्) गृहीतस्य शरीरतया संस्थापनक्रियापरिसमाप्तिः शरीरपर्याप्तिः, संस्थापनं रचना घटनमित्यर्थः ॥ व्याख्या || सामान्येन गृहीतस्य योग्यपुङ्गलसंघातस्य शरीरोपाङ्गतया संस्थापनक्रिया विरचनक्रिया तस्याः पर्याप्तिः शरीरपर्याप्तिः शरीरवर्गणायोग्यपुद्गलप्रतिनियता च रचना इत्यर्थः ॥ ( भाष्यम्) त्वगादीन्द्रियनिवर्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः ॥ व्याख्या ।। त्वगिति स्पर्शनेन्द्रियं तदादीन्द्रियं स्पर्शन - रसन-प्राण - चक्षुःश्रोत्र-मनोलक्षणं तत्स्वरूपनिर्वर्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः ।। (भाष्यम्) प्राणापानक्रियायोग्यद्रव्यग्रहण (परिणमनाऽऽलम्बन) निसर्गशक्तिनिर्वर्त्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः ॥ व्याख्या || प्राणापानावुच्छ्वासनिश्वासक्रियालक्षणौ, तयोर्वर्गणाक्रमेण योग्यद्रव्यग्रहणशक्तिः सामर्थ्यं तन्निर्वर्त्तनक्रियासमाप्तिः प्राणापानपर्याप्तिः ॥ (भाष्यम्) भाषायोग्यद्रव्य ग्रहण (परिणमनाऽऽलम्बन) निसर्गशक्तिनिर्वर्त्तनक्रियापरिसमाप्तिर्भाषापर्याप्तिः । व्याख्या ।। अत्रापि वर्गणाक्रमेणैव भाषायोग्यद्रव्याणां ग्रहणनिसर्गौ, तद्विपया शक्तिः । सामर्थ्यं तन्निर्वर्त्तनक्रियापरिसमाप्तिर्भाषापर्याप्तिरिति ।। (भाष्यम् ) मनस्त्वयोग्यद्रव्यग्रहण (परिणमनाऽऽलम्बन) निसर्गशक्तिनिर्वर्त्तनक्रियापरिसमा- A १ आहारशरीरेन्द्रियपर्याप्तिषु ग्रहणपरिणमनलक्षणक्रियाद्वयम् प्राणापानभाषामनः पर्याप्तिषु च ग्रहणपरिणमनाऽऽलम्बननिसर्गलक्षणक्रिया चतुष्कं यत्र निसर्गस्तत्राऽऽलम्बनमावश्यकं, धन्विजीवाऽऽकर्पणादिवदिति ॥
節」
M