________________
>yz !
पर्याप्ति
श्रीनवतत्त्व सुमङ्गलाटीकायां
॥१४॥
1052z
व्याऽऽलम्ब्य च विसृजति सा मनःपर्याप्तिः६॥ तत्त्वार्थभाष्ये वृत्तौ च-पर्याप्तिपश्चकमङ्गीकृतं न पदकम् , मनःपर्याप्तेरिन्द्रियपर्याप्त्यन्तर्गणनात्वात् , इन्द्रियं बाह्यं करणं, मनस्त्वन्तःकरणमिति, व्याख्याऽपि प्रकारान्तरेणैव विहिता, तच्चैवम्।-(भाष्यम् )। पर्याप्तिः पञ्चधा, तद्यथा-आहारपर्याप्तिः, शरीरपर्याप्तिः, इन्द्रियपर्याप्तिः, प्राणापानपर्याप्तिः, भाषापर्याप्तिरिति, पर्याप्तिः क्रियापरिसमाप्तिरात्मनः॥ व्याख्या ॥पर्याप्तिः पञ्चविधेत्यादि, पर्याप्तिः पुद्गलरूपा-आत्मनः कर्नुः करणविशेषः, येन करणविशेषेणाहारादिग्रहणसामर्थ्यमात्मनो निष्पद्यते तच्च करणं यैः पुद्गलैर्निवय॑ते ते पुद्गला आत्मनात्तास्तथाविधपरिणतिभाजः पर्याप्तिशब्देनोच्यन्ते इति सामान्येनोद्दिष्टम् । पर्याप्ति नामग्राहं विशेषेण निर्दिदिक्षन्नाह- तद्यथेत्यादि' आहारग्रहणसमर्थकरणपरिनिष्पत्तिराहारपर्याप्तिः, शरीरकरणनिष्पत्तिः शरीरपर्याप्तिः, इन्द्रियकरणनिष्पत्तिरिन्द्रियपर्याप्तिः, प्राणापानाबुच्छ्वासनिश्वासौ तद्योग्यकरणनिष्पत्तिः प्राणापानपर्याप्तिः, भापायोग्यपुद्गलग्रहण( परिणमनालम्बन )विसर्गसमर्थकरणनिष्पत्तिर्भाषापर्याप्तिः, यथोक्तं-" आहारसरीरइंदिय, ऊसासवउमणोभिनिव्वत्ति । होइ जओ दलियाओ करणं पइ सा उ पञ्जत्ति" ॥१॥ इति शब्द इयत्ताप्रतिपादनार्थः । ननु च पद पर्याप्तयः पारमर्षप्रवचनप्रसिद्धाः कथं पश्चसङ्ख्याका इति, उच्यते-इन्द्रियपर्याप्तिग्रहणादिह मनःपर्याप्तेरपि ग्रहणमवसेयमतः पञ्चैवेति निश्चयः, ननु च शास्त्रकारेणानिन्द्रियमुक्तंमनः, कथमिन्द्रियग्रहणात् गृहीप्यते तदित्युच्यते, यथा शब्दादिविषयग्राहीणि साक्षाच्चक्षुरादीनि, न तथा मनः, सुखादीनां पुनस्साक्षाद्ग्राहकं मनोऽसंपूर्णमिन्द्रियमित्यनिन्द्रियमुक्तं, इन्द्रलिङ्गच्यानुभवात्तु भवत्येवेन्द्रियमिति ॥ तत्राहारपर्याप्तिनिरूपणायाह;-( भाष्यम् ) शरीरेन्द्रियवाङ्मनःप्राणापानयोग्यदलिकद्रव्याहरणक्रियापरिसमाप्तिराहारपर्याप्तिः
>
卐>
<
॥१४॥
>