SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ < > 9z > >- हण्यां तु-" आहारसरीरइंदिय-ऊसास वओ मणोऽभिनिवत्ति, होइ जओ दलियाओ करणं पइ सा उ पजत्ती" ॥१॥ अस्या गमनिका-" आहारशरीरेन्द्रियोच्छ्वासवचोमनसामभिनिवृतिरभिनिष्पत्तिर्यतो दलिकाद्दलभूतात् पुद्गलसमूहात्तस्य दलिकस्य स्वस्वविषये परिणमनं प्रति यत् करणं शक्तिरूपं सा पर्याप्तिः" इत्यनया व्याख्ययाऽऽहारादिपरिणमनक्रियायां करणत्त्वेनापि पर्याप्तिः प्रदर्शिता ॥ अथ नामग्राहं पर्याप्तिाख्यायते तत्र जीवः पुद्गलोपचयालम्बनेन समुत्पन्नया यया शक्त्या बाह्यमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः १, पुद्गलोपचयाऽऽलम्बनसमुत्पन्नया यया शक्त्या जीवो रसीभृतमाहारं रसाऽमृङ्मांसमेदोऽस्थिमज्जानुक्रलक्षणसप्तधातुस्वरूपेण परिणमय्य शरीरं रचयति सा शरीरपर्याप्तिः २, पुद्गलोपचयालम्बनजन्येन येन सामर्थ्यविशेषेण रसादिसप्तधातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः ३, अयमर्थः प्रकारान्तरेणाप्यन्यत्रोक्तः, " पञ्चानामिन्द्रियाणां प्रायोग्यान् पुद्गलान् गृहीत्वाऽनाभोगनिवर्तितेन वीर्येण तद्भावनयनशक्तिः [तान् पुद्गलान् इन्द्रियस्वरूपेण परिणमयितुं सामर्थ्य ] सा इन्द्रियपर्याप्तिः" । संग्रहण्यां तु “जीवो यया धातुरूपतया परिणमितादाहारादेकस्य द्वयोस्त्रयाणां चतुर्णा पश्चानां वेन्द्रियाणां प्रायोग्यानि द्रव्याण्युपादायैकद्वित्र्यादीन्द्रियरूपतया परिणमय्य स्वस्वविषयेषु परिज्ञानसमर्थो भवति सेन्द्रियपर्याप्तिः" ॥ जीवः पुद्गलसमूहाऽऽलम्बनसमुत्पपन्नया यया शक्त्या पुनरुच्छ्वासयोग्यपुद्गलानादायोच्छ्वासरूपतया परिणमय्याऽऽलम्ब्य च मुञ्चति सा उच्छ्वास पर्याप्तिः ४, जीवः पुद्गलनिचयाऽऽलम्बनसमुपजातेन येन शक्तिविशेषेण भाषाप्रायोग्यघुद्गलानादाय भाषात्त्वेन परिणमय्याऽऽलम्ब्य च मुश्चति सा भाषापर्याप्तिः ५ । जीवः पुद्गलोपनिचयजातया यया शक्त्या पुनर्मनोयोग्यपुद्गलद्रव्यानादाय मनस्त्वेन परिणम < >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy