________________
श्रीनवतत्त्व
सुमङ्गला
टीकायां
॥ १३ ॥
भवपर्यन्तं जीवननिर्वाहार्थमाहारंग्रहणाद्या आवश्यकक्रियास्तेनाऽवश्यं विधेयाः, तत्तत् क्रियार्थं समुपजायमाना या शक्तिस्सैव “ पर्याप्तिः ' । पुनर्जीवेषु यारशक्तय उत्पद्यन्ते ता पुद्गलद्रव्योपचयस्याऽऽलम्बनेनैवोत्पद्यन्ते, यतस्संसारिजीवानां सर्वे पौद्गलिकव्यापाराः पुद्गलसंघातस्याऽलम्बनेनैव भवन्ति, यद्यपि जीवस्य शक्तिस्स्वतंत्राऽपरिमिता च परं सा तु सिद्धिवधूत्सङ्गशालिनां सिद्धानामेव, अपौगलिका च सा आत्मसाक्षात्कारस्वरूपा, भवस्थानां तु पौद्गलिका, यदुक्तं कर्म्मप्रकृतौ ः- “ द्रव्यनिमित्तं हि संसारिणां वीर्यमुपजायते " अतस्तत्शक्त्युत्पत्तौ निमित्तीभूतो यः पुद्गलोपचयस्सोऽपि कारणे कार्यस्य व्यपदेशेन पर्याप्तित्वेन व्याख्यायते, अनेनैव हेतुना च पर्याप्तयोऽपि पुद्गलसंघातस्वरूपाः प्रोच्यन्ते ॥ तत्त्वार्थभाष्ये तु " पर्याप्तिः क्रियापेरिसमाप्तिरात्मनः " तत्तच्छक्तौ निमित्तीभृतपुद्गलसमूहसत्कक्रियाया या परिसमाप्तिस्सा पर्याप्तिरित्यर्थः । एवं शक्तिः, T शक्तौ हेतुभृतः पुद्गलोपचयः समाप्तिश्चेति पर्याप्तिशब्दस्य त्रयोऽर्थाः ॥ बृहत्संग्रहण्यादिग्रन्थेषु तु पर्याप्तिशब्दः सामर्थ्य - N विशेषार्थत्वेन व्याख्यातः, तच्च सामर्थ्यं पुद्गलद्रव्योपचयजन्यम् । उत्पत्तिस्थानमागतेन जीवेन प्रथमसमयगृहीता ये पुनA लास्तेषां तत्प्रथमसमयगृहीतपुद्गलसम्बन्धेन तत्स्वरूपप्राप्तानां द्वितीयादिप्रतिसमयगृह्यमाणपुद्गलानाञ्श्चाऽऽहारादिखरूपाणां खलरसादिपरिणमने या शक्तिस्सा पर्याप्तिः यथोदरवर्त्तिन्या तथाप्रकारकतैजसादिपुद्गलशक्त्या गृहीताऽऽहारादिपुद्गलाः T खलरसादिरूपतया परिणम्यन्ते तथैव प्रथमसमयादिगृहीतपुद्गलानां तथाविधा या शक्तिस्यैव पर्याप्तिरित्यर्थः ॥ बृहत्संग्र१ प्रतिसमयमाहारग्रहणं, सप्तधातूनां रचना, इन्द्रियद्वारा स्वस्वविपयोपादानं, श्वासोश्वासग्रहण विसर्जनं, संभाषणं, मानसिकास्तर्का इति षट्कार्याण्यवश्यं कर्त्तव्यानि इति ।।
v
A
SSUM 5A5N5O5A5A
पर्याप्त—
स्वरूपम् ॥
॥ १३ ॥