________________
zy
>
<
नं. निराकारविशेषणयुक्त निखिलेष्वपि जीवेषु
स
>
| माणुष्वसंभवः, अतो वीर्य जीवस्यैव लक्षणं, न तु परमाण्वात्मकपुद्गलद्रव्यस्याऽपि ॥ तथोपयोगोऽपि जीवस्य लक्षणत्वेन व्याख्यातः, स च द्वादशधा, तद्यथा-पञ्चविधं ज्ञानं, त्रिविधमज्ञानं, चतुर्विधं दर्शनश्च, तत्र पञ्चविधज्ञानत्रिप्रकारकाऽज्ञानात्मकोऽष्टविधस्साकारोपयोगः, चतुर्विधदर्शनात्मको निराकारोपयोगश्च एवं साकारनिराकारलक्षणेषु द्वादशसूपयोगेषु यथासंभवं जीवोऽवश्यं वर्तते, अयमुपयोगो जीवस्य मूलगुणत्वेनाऽऽख्यातः, यदा स उपयोगस्साकारादिविशेषणविशिष्टस्तदा ज्ञानं, निराकारविशेषणयुक्तस्तदा दर्शनमिति कथ्यते, इत्येवं लेशतः प्रदर्शितानि ज्ञान-दर्शन-तपो-वीर्य-उपयोगात्मकानि जीवस्य लिङ्गानि सत्तापेक्षया निखिलेष्वपि जीवेषु संपूर्णतया वर्तन्ते, तथापि कर्मपरमाणुपरिकरपरिकलितानां संसारिणां तु अल्पाऽधिकतयाऽऽविर्भूतानि सन्ति, सिद्धानां साकल्येन प्रादुर्भूतानि भवन्ति ॥ ५ ॥
पूर्वप्रपञ्चितगाथया जीवस्य लक्षणं व्याख्याय याभिर्जीवाः पर्याप्ता अपर्याप्ता बोच्यन्ते तत्पर्याप्तिस्वरूपप्रदर्शनपूर्विकां, 'एकेन्द्रियादिजीवानां कतिपर्याप्तयो वर्तन्ते ' तत्प्रतिपादिकां गाथामाह:
आहार-सरीर-इंदिय, पजत्ती आणपाण-भास-मणे॥
चउ-पंच-पंच-छप्पिय, इग-विगलाऽ-सन्नि-सन्नीणं ॥६॥ टीका-'आहार' ति; घण्टालालान्यायेन मध्यवर्ती 'पजत्ती' शब्द आहारादिपदैरानप्राणादिपदैश्च सह प्रत्येक सम्बन्धनीयः, तद्यथा-आहारपर्याप्तिः, शरीरपर्याप्तिः, इन्द्रियपर्याप्तिः, आनप्राणपर्याप्तिः, भाषापर्याप्तिः मनःपर्याप्तिश्च । ननु पर्याप्तिशब्दस्य कोऽर्थः ? इत्याशङ्कायामुच्यते-आयुषः क्षयानन्तरं विवक्षितभवान्निर्गत्य यस्मिन् भवे जन्तुस्समुत्पद्यते तत्राऽऽ
in卐卐卐卐z卐0924
तानि भवन्ति ।
>
-
<
>