________________
iz
>)
जीवलक्षण प्रतिपादनम्
श्रीनवतत्त्वसुमङ्गलाटीकायां॥१२॥
>卐
कायबलोपबृंहस्य चाहारपरतन्त्रत्वात् , न चैवमाहारमुपादीयमाने तपोगुणस्य हानिप्रसङ्गः, तपसस्तु इच्छानिरोधात्मकेन लक्षणेन भृयमानत्वात्, व्याधिग्रस्तेन गृह्यमाणकटुकौषधवत् इति ।। इत्थमिदं तपोऽपि ज्ञानचारित्रादिगुणवत्सूक्ष्मनिगोदादिष्वपि प्रागव्यावर्णितयुक्त्याऽस्त्येव, तस्मादयं तपोगुणोपि जीवस्य लक्षणं, जीवं विहाय न कुत्रचित्प्रवर्त्तते तपः॥ तथा वीर्यमपि जीवस्य लक्षणम् , तत्र वि-विशेषेण ईरयति प्रेरयति आत्मानं तासु तासु क्रियासु तद् वीर्यमुच्यते, वीर्य, उत्साहः, बलं, स्थाम, पराक्रमः, शक्तिरिति पर्यायाः, इदं वीर्य द्विधा, करणवीर्य, लब्धिवीर्य च, तत्र मनोवाकायाऽऽलम्बनेन प्रवर्त्तमानं वीर्य करणवीर्यमुच्यते, ज्ञानदर्शनचारित्रोपयोगेषु प्रवर्त्तमानमात्मनस्स्वाभाविकं वीर्य लब्धिधीर्यं कथ्यते । यद्वाऽऽत्मनि शक्तित्वेन सद्भूतं यद्वीयं तल्लब्धिवीर्य, तस्याश्शक्तेर्हेतुभूतं मनोवाकायात्मकं साधनं तत्करणवीर्यम् । इदं करणवीर्य सकलसयोगिसंसारिणां भवति, लब्धिवीर्य तु वीर्यांतरायस्य क्षयोपशममाश्रित्य छद्मस्थजीवानां न्यून न्यूनतर-न्यूनतमाऽधिकाधिकतराधिकतमाद्यसंख्यप्रकारकं भवति, केवलिनां सिद्धिसौख्यशालिनां च वीर्यान्तरायस्य समूलक्षयेण संपूर्णतया लब्धिवीर्य विद्यते, इदं वीर्य सूक्ष्मैकेन्द्रियजीवेऽपि अनन्ततमांशेन विद्यते, तस्मात् प्रतिजीवं वीर्यस्याऽल्पाऽधिकतया संपूर्णतया वाऽवश्यं सद्भावाद्वीर्यस्य च जीवं विनाऽनन्याऽऽधारत्वाद् वीर्यमपि जीवस्य लक्षणम् ।। ननु वीर्यपर्यायस्वरूपा शक्तिस्तु पुद्गलेऽपि विलोक्यते, यतस्समयमात्रेण परमाणुः लोकान्ताल्लोकपर्यन्तं यावद्गन्तुं समर्थः, शक्तिश्च वीर्यपर्यायतया समा| ख्याता, तत्कथं वीर्य जीवस्यैव लक्षणम् ? उच्यते:-शक्तिस्तु केनाऽपि प्रकोरण प्रतिद्रव्यं विद्यते, किश्चिदपि द्रव्यमेतादृङ् नास्ति यस्मिन् कस्याश्चित्शक्तेरपि पर्युदासः । अत्र तु योग-उत्साह-पराक्रमात्मिका शक्तिरिष्यते, तथाविधायाश्च शक्तेः पर-
卐卐Egyz053
-
3
-卐
॥१२॥