________________
प्रतिजीवमव्यक्तचारित्रं निःशङ्कम् । तदुक्तं श्रीकर्मप्रकृतिमहाशास्त्रे-"विरियंतरायकेवलदसणमोहणीयणाणवरणाणं । असमतपञ्जएसु सबदब्वेसु उ विवागो" ॥१॥ अस्या गमनिका वीर्यान्तराय केवलदर्शनावरणाऽष्टाविंशतिविधमोहनीयपञ्चविधज्ञानावरणानां पञ्चत्रिंशत्प्रकृतीनां असमस्तपर्यायेषु सर्वद्रव्येषु सर्वजीवद्रव्येषु विपाकः । तथाहिः-इमा वीर्यान्तरायादयः पञ्चत्रिंशत् प्रकृतयो द्रव्यतस्सकलमपि जीवद्रव्यमुपनन्ति, पर्यायाँस्तु न सर्वानपि, यथा मेधैरतिनिचिततरैरपि सर्वात्मनान्तरितयोस्सूर्याचन्द्रमसोन तत्प्रभा सर्वथाऽपनेतुं शक्यते, उक्तञ्च;-"सुट्टवि मेहसमुदए होइ पहा चंदसूराणं" ति, तथात्राऽपि 'भावनीयमिति" ॥ तथा इच्छाया निरोधस्तदेव नैश्चयिकं तपः, अथवा इच्छानिरोधस्य यदभ्यासात्मकं हेतुस्वरूपं चिह्नस्वरूपं वा यदनशनादिसेवनं तदपि व्यवहारेण तपः प्रकीयते, यद्वाऽष्टप्रकारकं कर्म तापयतीति तपः, उपोषणोनोदरताप्रभृतिव्यवहारतपस अभ्यासेनेच्छानिरोधात्मकं नैश्चयिकं तपः प्राप्यते, अत एव व्यवहारतपो नैश्चयिकतपसश्चिन्हमस्ति हेतुस्वरूपं वा । यथा सर्वमिष्टान्नपानसामग्रीपरिकलितः कश्चित् परमाईद्भक्तस्तां पुण्यलभ्यां सामग्रीमविगणय्याऽचाम्लचतुर्थभक्तषष्ठोष्टमादिप्रत्याख्यानं कुरुते तस्मादनुमितिस्संजायते यदस्यात्मा इच्छानिरोधात्मकतपोगुणोपेतः। अयं तपोगुणस्सर्वज्ञस्य क्षपितमोहनीयवीर्यान्तरायकर्मणस्संपूर्णतया विद्यते, यतस्तपसः प्रादुर्भावो मोहनीयवीर्यान्तरायक्षय-क्षयोपशमाभ्याम् । अन्येषां तु निजनिजक्षयोपशमानुसारेण न्यूनाधिकतया वर्त्तते, ननु सर्वज्ञानां साकल्येन तपस आविर्भावस्तदा निःशेषैरपि केवलिभिरनाहारकैर्भवितव्यम् । मैवम् , दग्धघातिकर्मेन्धनास्सर्वज्ञा आहारमाहाराऽभिलाषाधीनाः सन्तो न गृहन्ति, अभिलापोत्पादककर्मणस्तेषामभावात, केवलमौदारिकशरीरनिर्वाहार्थमेवाऽऽहारमादत्ते, देशनादिकर्माणि कायबलस्योपबृंहकत्वा