________________
'
श्रीनवतत्त्व सुमङ्गलाटीकायां
जीवलक्षण प्रतिपादनम्
'
'६
>
॥११॥
<
यथा सूक्ष्मनिगोदस्य प्रथमसमये यो चारित्रस्याऽनन्ततमांशस्तदपेक्षयाऽन्यसूक्ष्मनिगोदस्यानन्ततमांशो विवक्षितसूक्ष्मनिगोदजीवस्य चारित्रांशाद् अनन्तगुणः, एवमन्यत्रापि यथायोगं भावनीयम् । ये च पुनः क्षपितमोहनीयकाणः केवलिनस्सिद्धाश्च तेषां संपूर्ण चारित्रं वर्त्तते, एवं सर्वजीवानां चारित्रगुणयुक्तत्वात् , चारित्रस्य विना जीवमनन्याऽऽधारत्वात् चारित्रमपि जीवस्य लक्षणम् ॥ ननु " सर्वे जीवाश्चारित्रगुणोपेता" इति कथनं न सम्यग् जाघटीति, यतो देशविरतिनामकं पञ्चमगुणस्थानं यैरद्यावधि नाऽलामि ते मिथ्यादृष्टयोऽथवा सूक्ष्मनिगोदप्रभृतिजीवा येऽप्रत्याख्यानावरणाऽनन्तानुबन्धिस्वरूप सर्वघातिकषायोदयवन्तस्तेषां जीवानां चारित्रगुणस्याविर्भावो लेशतोऽप्यसंभाव्य एव, यावत्कालं जीवा अनन्तानुबन्धिकषायोदयभाजस्तावत्सम्यक्त्वमपि न लभन्ते तदा चारित्रस्य का वार्ता ? पुनर्यदि सूक्ष्मनिगोदादयो मिथ्यादृष्टयश्चाऽपि लेशतश्चारित्रगुणोपेतास्तर्हि देशविरत्याख्यपञ्चमगुणस्थानवर्तिनः श्रीद्धा एव विरताविरताः कथमुच्यन्ते ? हि भवदुक्त्या तु पश्चमगुणस्थानपर्यन्तं सर्वजीवा देशतश्चारित्रगुणसहितास्तस्मानिखिलजन्तुषु चारित्रं कथं संभवेत् ? सत्यं परं विचारणीयास्पदमेतत्, यतः सर्वघातिकषायोदयवतामपि जीवानां कतिचिच्चारित्रपर्याया अनावृता एव, यथा निबिडघनघटावृतेऽह्नि सवितू रश्मयो न दृश्यन्ते परं रश्मिगताल्पप्रभायुक्तत्वात् तद्दिनेन सर्वथाऽन्धकारमयेन न भूयते, यदि दिनस्यात्यल्पप्रभासङ्गतत्वं न स्यात्तदा दिनत्रियामयोर्भेदोऽपि न भवेत् । एवं श्रद्धापूर्वको यमनियमव्रतादिग्रहणात्मको | निवृत्तिप्रवृत्तिरूपो वा चारित्रगुणस्तेषु सूक्ष्मनिगोदप्रभृतिषु न बरीवर्तते परमव्यक्ताऽतिस्तोककषायमन्दतात्मकं चारित्रं विद्यते एव, अनन्तानुबन्ध्यादिसर्वघातिकषायास्सर्वोत्कृष्टा भवेयुस्तथापि कतिपयचारित्रपर्यायाणां निरावरणीयत्वात्
卐
<s
yzE0卐<卐-)
-卐
>
.