SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ < AST A ASIS: अव्यक्तविज्ञानशक्तिविद्यमानता वरीवर्त्तते, अयं चैतन्यांऽशोऽस्माभिः कर्म्मपाशाऽवगुण्ठितैः प्रत्यक्षं नानुभूयते परं केवलज्ञानबलावलोकितलोकत्रिकैस्सर्वज्ञपरमेश्वरैस्तेषु चैतन्यांऽशो प्रत्यक्षं दरीदृश्यते, आगमेऽप्युक्तं - " सव्वजीवाणंपि अ णं अक्खरस्स अणतमो भागो निच्चुग्घाडिओ, जइ पुण सोऽवि आवरिजा तेणं जीवो अजीवत्तणं पाविजा " || तस्मात् प्रतिजीवं स्तोकतया विपुलतया सम्पूर्णतया वा ज्ञानदर्शनगुणाववश्यं भवत इति नि प्रचम् । तथाऽशेषछद्मस्थजीवेषु पूर्व सामान्यबोधात्मको दर्शनोपयोगस्ततो विशिष्टावबोधस्वरूपो ज्ञानोपयोग उत्कृष्टतया प्रत्येकमन्तर्मुहूर्त्तकालिकश्च, क्षपितघातिकर्म्मणां सर्वज्ञानां निःशेषदोषापेतानां सिद्धानाञ्च प्रथमो ज्ञानोपयोगस्ततो दर्शनोपयोगः प्रत्येकं समयमात्रकालिकचेति ॥ तथा ज्ञानेन वस्तुधर्मं सम्यक्परिज्ञाय दर्शनेन च श्रद्धानं विधाय जीवाऽजीव - पुन्यपापाऽऽश्रवसंवरादिषु हेयोपादेयात्मिका आत्मनो या प्रवृत्तिस्तदेव चारित्रम् उक्तञ्च तत्वार्थभाष्येः - ' विरतिर्नाम ज्ञात्वाभ्युपेत्याकरणं " अथवा मोहमलपराजिता अत एव नानाविधवधबन्धनादिशातनामनुभवन्तो जन्तवस्तमपराधिनं मोहं विजेतुं सद्गुरूपदेशतो लघुकर्माणस्सन्तः पञ्चमहाव्रतद्वादशाणुव्रताद्यात्मकं कवचं पिधाय दुर्जय्यमपि तं सुभटाग्रेसरं येन विशिष्टगुणेन पराजय्य केबललक्ष्मीमनुभवन्ति तदेव चारित्रम्, चरति आत्मा मोक्षे गच्छति येन तच्चारित्रमिति हृदयम् । ज्ञानदर्शनवदिदं चारित्रमपि लब्ध्यपर्याप्तसूक्ष्मैकेन्द्रियप्रभृतिषु समग्रजीवेषु स्वस्वक्षयोपशममाश्रित्य अल्पांशतया बह्वंशतया वाऽवश्यं विद्यते, तत्राऽक्षपितमोहनीय कर्माणो ये छद्मस्थास्तेषामनन्ततमांशप्रमाणं चारित्रमस्ति, अयमनन्ततमांशोऽपि पृथक्पृथक् जीवानाश्रित्य तारतम्यभाग् विद्यते, १ अर्शोङ्कुरादिदृष्टान्तजन्यानुमानेन तु अस्माभिरपि विज्ञायते ॥ 555<5Z505A55
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy