SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ zy< 5 लक्षणम्. श्रीनवतत्त्वसुमङ्गलाटीकायां॥१०॥ > < z - व्यादिभूताश्रिता ज्ञानादयो गुणाः, प्रत्येकं तेष्वनुपलभ्यमानत्वात् , यन्नैवं बन्नैवं यथा-सत्वकठिनत्वादि, भूतादिव्यतिरिक्ता जीवद्रव्याश्रिता गुणाः भूताद्यनाश्रितत्वे सति साश्रितत्वात् , यन्नैवं तन्नैवम् । अनेनेत्थं निश्चितिः सज्जाता यज्ज्ञानादयो जीवस्य लक्षणभूताः। एतेषां ज्ञानादिगुणानां सूक्ष्मनिगोदप्रभृतिषु निखिलेष्वपि जन्तुषु कया रीत्या सद्भावस्तत्परामृश्यते;अस्मिञ्जगति सर्वे पदार्थास्सामान्यधर्म-विशिष्टधर्मोपेताः, तत्रेदंकिञ्चिदथवाऽयं घटोऽयं पट इति किञ्चित्व घटत्व-पटत्वविशिष्टो यः पदार्थधर्मः स सामान्यधर्मः, तत्रेदंकिश्चिदिति आकारवर्जितं पदार्थभानं नैश्चयिकार्थाऽवग्रहप्राधान्येन दर्शनमेव गण्यते, उपलक्षणाद् व्यंजनाऽवग्रह ईहा च दर्शनरूपेति । 'अयं घटः' इत्यत्र यद्यपि घटत्वविशिष्टनैश्चयिकाऽपायेन ज्ञानमेव, पर व्यावहारिकार्थाऽवग्रहाऽपेक्षया दर्शनत्वेनाऽप्युररीक्रियते । तथा अयं घट एव स च शुक्लादिवर्णोपेतस्सुवर्णमयः पाटलिपुत्रे निर्मित इत्याकारको विशिष्टधर्मोपेतो यो पदार्थावबोधस्तज्ज्ञानमुच्यते, एवं द्रव्यस्य सामान्याऽवबोधस्तद्दर्शनं, पदार्थविशिष्टाऽवबोधात्मकश्च ज्ञानम् । अथवा पदार्थसामान्यधर्मसत्कोपयोगस्तद्दर्शनं,पदार्थविशिष्टधर्मसत्कोपयोगस्तज्ज्ञानम् निराकारोपयोगात्मकं दर्शनं, साकारोपयोगात्मकञ्च ज्ञानं बैते सर्वे समानार्थाः । इत्येवं दर्शनज्ञानगुणावात्मनो मुख्यधर्मी । अल्पतया विशिष्टतया वैते गुणा जीवमृते नान्यत्र स्तः, प्राणिमात्रवर्तिन्या विज्ञानशक्त्यैवाऽयं जीव इत्युपलक्ष्यते । एते दर्शनज्ञाने लब्ध्यपर्याप्तसूक्ष्मैकेन्द्रियमादौकृत्वा पर्याप्तसंज्ञिपश्चेन्द्रियं यावत् यथाक्षयोपशमं सकलेष्वपि जन्तुष्ववश्यं भवतः । न च पृथ्वीजलाग्निवायुप्रभृतिष्वेकेन्द्रियेषु प्रत्यक्षं विज्ञानशक्तेरनुपलभ्यमानत्वात्तस्या अभाव इति वाच्यम् । यथौषध्यादिभिमूर्छितमृतिमतो मर्त्यस्याव्यक्तचैतन्यमस्त्येव, एवं प्राग्भवोपात्तनिबिडकौषधिव्याहतचैतन्येष्वेकेन्द्रियादिष्वपि < O 5 < 5 - 9 ॥१०॥ <
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy