SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ७) >卐卐>yz प्रज्ञापना-लोकप्रकाशादिग्रन्थेभ्यस्समवसेयः ॥ ४ ॥ ___ जीवस्य चतुर्दशभेदानामतो व्याख्यायाथ जीवलक्षणं प्रतिपादयति;नाणं च दंसणं चेव, चरित्तं च तवो तहा। वीरियं उवओगो य, एयं जीवस्स लक्षणम् ॥ ५॥ व्याख्या;-'नाणं' ति, जीवस्य चतुर्दशभेदास्तु वर्णिताः, परमयं जीव इति ज्ञापकं जीवस्य लक्षणवल्लक्षणं किमिति शङ्काव्यपोहार्थमिदमुच्यते । पूर्वतावत् लक्षणस्य व्याख्या; लक्ष्यते वस्त्वनेनेति लक्षणमथवाऽसाधारणधर्मो लक्षणमिति, अव्याप्त्यतिव्याप्त्यसंभवदोषाऽपेतं यल्लक्षणं तदेव लक्षणम् । यस्मिन् लक्षणे अव्याप्त्यादयः केचिदपि दोषास्तल्लक्षणं लक्षणकोट्यां न घटते, यथा 'गोः किल्लक्षणं?' इति गुरुणानुयुक्ताश्चत्वारोऽन्तेवासिन एवमूचुः, प्रथमस्तावत् गोः कपिलत्त्वं लक्षणमाह, तत्राऽव्याप्तिदोषः, सितासितवर्णवतीनां तत्राप्रवेशात् । द्वितीयस्त्वाह 'शृङ्गित्वं गोर्लक्षणम् , तत्रातिव्याप्तिर्महिष्यादीनामपि तत्र प्रवेशात् , एकशफवत्त्वं गोर्लक्षणमिति तृतीयस्योक्तौ असंभवदोषदुष्टत्त्वं यतो गवामेकशफवत्वस्याऽसंभवः, चतुर्थस्त्वेवमुवाच, सास्नावत्वं च गोर्लक्षणम् , तत्र सिताऽसितकपिलादिवर्णभिन्नानां निखिलानामपि गवां समावेशात् गोव्यतिरिक्तोष्ट्रमहिष्यादीनां चाप्रवेशात् सर्वासामपि गवां सास्नायास्सद्भावत्वात् अव्याप्त्यतिव्याप्त्यसंभवदोषवर्जितुं लक्षणवल्लक्षणं॥तथाविधगुणजन्यविशिष्टज्ञानरहितानां जनानां व्यवहिताऽतीन्द्रियगोचरपदार्थावबोधार्थमनुमानमप्यावश्यकम् । यथा कश्चिन्नरः पर्वते वह्निमपश्यन् धूमदर्शनादनुमितिं विदधाति यदत्र वह्निना भाव्यम् , एवमनुमीयमानानां ज्ञानदर्शनादिगुणानामाधारवत्वादधिकरणं च विनाऽऽधेयस्यासंभवत्त्वात् ज्ञानादयो जीवद्रव्याश्रिता गुणत्वाद् रूपवत् । न पृथि >卐y-> yz卐0卐८-
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy