________________
चतुदेश
श्रीनवतत्त्वसुमङ्गलाटीकायां॥९॥
द
व्याख्या.
iz卐卐>卐卐卐卐F卐>卐र
अनन्तसूक्ष्मवनस्पतिकायिकजीवानां शरीरमेकं भवति यत् सूक्ष्मनिगोदनाम्ना सूक्ष्मसाधारणशरीरनाम्ना सूक्ष्मानन्तकायनाम्ना वोपलक्ष्यते,तादृशामसंख्यातसूक्ष्मनिगोदानामेको गोलको भवति,तादृशा गोलकास्मिँल्लोकेऽसंख्यातसंख्याकास्सन्ति, यदुक्तम्, "गोला य असंखिज्जा असंखनिगोययो हवइ गोलो । इक्किकमि निगोए अणंतजीवा मुणेयवा" ॥१॥ तथा ये पृथ्वी-जला ऽग्नि-वायु-वनस्पत्यादयश्चक्षुरादीन्द्रियेणाऽनुभवमायान्ति ते निखिलाऽपि पृथ्वीकायिकादयो बादरा अवगन्तव्याः, तत्र पृथ्वीकायिकाप्कायिकाऽग्निकायिकवायुकायिकाश्च जीवाः प्रत्येकमसंख्याताः, ये च बादरवनस्पतिकायिकास्तत्र कन्द-मूलाऽऽर्द्रकत्रिकशेवालादयःसाधारणशरीरिणोऽनन्ताः, येचाऽऽम्रनिम्बादयो वृक्षा ये च फलबीजाद्यास्ते प्रत्येकशरीरिणोऽसंख्यातसंख्याकाः॥ तथा शंख-कपर्दिका-चन्दनक-कृमिप्रभृतयो जीवा द्वीन्द्रियसंज्ञकाः, एते बादराः किन्तु न सूक्ष्मास्तथाविधसूक्ष्मनामकर्मोदयाऽभावात् । एवं त्रीन्द्रियचतुरिन्द्रियादयोऽपि बादरा एवाऽवगन्तव्याः । तेतु ईलिका-पिपीलिका-यूका-मर्कोटकघृतेलिकादय| स्त्रीन्द्रियाः, भ्रमर-वृश्चिक-मक्षिका-मशकादयश्चतुरिन्द्रियाश्च बोधव्याः, तथा पञ्चेन्द्रियेषु ये जननीजनकयोस्संयोगं विनैव तथाविधजलादिसाधनेनोत्पद्यमाना मण्डूक-सर्प-मत्स्यादयस्तिर्यपञ्चेन्द्रियाः, मानां मलमूत्रादिचतुर्दशाऽशुचिस्थानकेषूत्पद्यमानास्संमूछिममनुष्यादयश्च ते सम्मृछिमपञ्चेन्द्रियसंज्ञका ज्ञेयाः, एकेन्द्रियादारभ्य सम्मृछिमपञ्चेन्द्रियपर्यन्ता निखिला अपि तथाप्रकारकविशिष्टमनोविज्ञानराहित्येन भूतभविष्यत्कालसत्कविचारणाशून्येनाऽसंज्ञिन उच्यन्ते । तथा ये च जीवा मातृपितृसंयोगपूर्वकं गर्भाशये उत्पद्यन्ते ते गर्भजपञ्चेन्द्रियाः, पर्याप्तावस्थायामेते सर्वेऽपि अतीताऽनागताद्धासत्कपरामशात्मिकदीर्घकालिकीसंज्ञायाः सद्भावेन संज्ञिपञ्चेन्द्रियाः प्रोच्यन्ते । एवं लेशतो जीवस्य स्वरूपं प्रदर्शितं, विस्तरस्तु जीवाभिगम
10卐卐卐卐z卐0卐८)!