________________
SAY!
किञ्चित्; ये एकेन्द्रियजीवा समुदितास्सन्तोऽपि दृग्गोचरा न भवन्ति केवलं केवलज्ञानशालिनस्सर्वज्ञा एव सर्वपरिच्छेदात्मकेन केवलज्ञानेन तान् दृष्टुं सामर्थ्यभाजस्ते सूक्ष्मनामकम्र्मोदयात्सूक्ष्मा इति प्रोच्यन्ते । यद्यप्यत्र जीवशरीरयोरभिन्नच्चाजीवाः समुदिता इत्युदलेखि, परं तत्र सूक्ष्मैकेन्द्रियजीवानां समुदितानि शरीराण्यपि दृष्टिपथं नायान्तीत्यवगन्तव्यम्, अन्यथासिद्धाऽवस्थापन्नेष्वपि जीवेषु दोषप्रसङ्गः । एते सूक्ष्मैकेन्द्रियाः समग्रचतुर्दशरज्ज्वात्मके लोके अञ्जनचूर्णपूर्णसमुद्गकवन्निरंतरं खचिताः, यावल्लोकैकप्रदेशोऽपि सूक्ष्मजीवविरहितो न भवति, एषां जीवानां सूक्ष्मनामकम्र्मोदयात्सूक्ष्मच्चमस्ति, अतएव केनापीA न्द्रियेणैतेषां सद्भावज्ञानं छद्मस्थानां न स्यात् परं केवलाऽऽलोकाऽवलोकितसमस्तलोकवर्त्तिपदार्थानामतीन्द्रियज्ञानिनां न किञ्चिदप्यगोचरम्, तैश्च केवलज्ञानेन सर्वमपि द्रव्यपर्यायजातमालोक्य तेषां सूक्ष्मजीवानामस्तित्त्वं प्रतिपादितम्, नहि रागद्वेषमोहप्रभृतिप्रबलवैरिवारविजेतारः कदाप्यनृतं ब्रूयुः, अनृतभाषणहेतूनां रागद्वेपमोहानां सर्वथैव तेष्वभावत्त्वात्, अतएवाऽस्माशैरपि तेषां सूक्ष्मजीवानां सद्भावस्स्वीकर्त्तव्य ॥ ननु ये सूक्ष्मार्थाः चर्मचक्षुर्भ्यां दुर्निरीक्ष्यास्ते सूक्ष्मदर्शकयन्त्रेण कथं न दृश्यन्ते ? सत्यम् ;- सूक्ष्मदर्शकयन्त्रं तु चक्षुषोस्साहाय्यकृत्, अत अन्याऽन्यस्थूलद्रव्याऽपेक्षया ये सूक्ष्मा न तु सूक्ष्मनामोT दयात् सूक्ष्मास्ते तु सूक्ष्मदर्शकयन्त्रस्य साहाय्येनाधिकतेजोभ्यां चक्षुभ्यां विलोक्यन्ते परमेषां तु इन्द्रियातीतविषयत्वात् न नेत्रगोचरत्वम्, बादरवायुरदृश्यमानोऽपि जागरूकस्पर्शनेन्द्रियद्वारा स्पष्टं विज्ञायतेऽस्तित्वेन, न च सूक्ष्मदर्शकयन्त्रेणालोक्यते, v एवं (सूक्ष्मदर्शकयन्त्रेणादृश्यमाना अपि एते सूक्ष्मजीवास्सद्भावतयोररीकर्त्तव्याः । एषु सूक्ष्मसंज्ञकेषु जीवेषु ये पृथ्वीकायिका ये | चाकायिकास्तेजस्कायिका वायुकायिकाश्च ते प्रत्येकमसंख्यातास्समुदिता अप्यसंख्याता, ये च सूक्ष्मवनंस्पतिकायिकास्ते त्वनन्ताः, वृद्ध
A
品
L
A
V
W
z