SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ zy श्रीनवतत्त्वसुमङ्गलाटीकाघां जीवस्य चतुर्दशभेदानां व्याख्यानम्. > ॥८ ॥ '-卐८- पूर्वोक्तप्रकारका एवेति न, प्रकारान्तरेण सप्तविधा अष्टविधा त्रिपट्यधिकपञ्चशतविधा अपि प्रज्ञापनादिग्रन्थेषु सुविख्याताः विस्तरभयादत्र न प्रतन्यते, तत एवावसेयाः ॥३॥ ___अथ 'यथोद्देशं निर्देश' इति न्यायेनादौ जीवस्य चतुर्दशभेदभिन्नत्वं प्रतिपादयति;एगिदिय सुहमियरा, सन्नियर पणिंदिया य सबितिचउ।अपजत्ता पजत्ता, कमेण चउदस जिअट्ठाणा ४ टीका-'एगिंदयत्ति' 'एकेन्द्रियाः-सूक्ष्मेतराः,' सूक्ष्मैकेन्द्रिया बादरैकेन्द्रियाश्चेत्यर्थः, 'संज्ञीतरपञ्चेन्द्रियाश्च' संज्ञिपञ्चेन्द्रिया इतरशब्देनासंज्ञिपञ्चेन्द्रियाश्च, ‘स द्वित्रिचतुः' द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियसहिताः पूर्वोक्ताश्चत्वारः सम्मीलिताः सप्तभेदा भवन्ति, ते सप्तभेदा अपर्याप्तनामकर्मोदयेन अपर्याप्ताः, पर्याप्तनामकर्मोदयेन च पर्याप्ता इति पर्याप्ताऽपर्याप्तविभागेन क्रमेण चतुर्दशजीवस्थानानि भवन्तीति गाथाक्षरार्थः । व्यासार्थस्त्वयम्-अपर्याप्तसूक्ष्मैकेन्द्रियाः, अप र्याप्तबादरैकेन्द्रियाः, पर्याप्तसूक्ष्मैकेन्द्रियाः, पर्याप्तबादरैकेन्द्रियाः, अपर्याप्तद्वीन्द्रियाः, पर्याप्तद्वीन्द्रियाः, अपर्याप्तत्रीन्द्रियाः, पर्याप्ततीन्द्रियाः, अपर्याप्तचतुरिन्द्रियाः, पर्याप्तचतुरिन्द्रियाः, अपर्याप्ताऽसंज्ञिपञ्चेन्द्रियाः, पर्याप्ताऽसंज्ञिपञ्चेन्द्रियाः, अपर्याप्तसंज्ञिपञ्चेद्रियाः, पर्याप्तसंज्ञिपञ्चेद्रियाश्चेति जीवस्य चतुर्दशभेदाः । कर्मपरमाणुपरिकलिताः संसारस्थास्सर्वे जीवा एषु चतुर्दशभेदेषु अन्तर्गताः। चतुर्दशभेदबहिर्वी नास्ति कोऽपि संसारे जीवः। तत्राग्रे वक्ष्यमाणस्वरूपाणां स्वयोग्यानां पर्याप्तीनां समापनं विनैव ये मरणशरणं गतवन्तस्तेऽपर्याप्ता इत्युच्यते, ये च स्वयोग्याः पर्याप्तीः समापय्यर पञ्चत्वमश्नुवते ते पर्याप्ताः समाख्याताः॥ सूक्ष्मैकेन्द्रियादिजीवानां स्वरूपंप्राज्ञपुरन्दरैजीवाभिगमादिषु विस्तरेण प्रोक्तं तथाऽपि मन्दमतीनामवबोधाय संक्षेपत एवोल्लिख्यते >yz393 ॥८॥ >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy