________________
z
>卐
-
बध्नन्ति ते तु तृतीयाप्रकृतित्वमनुभवन्ति । वेदत्रयबहिर्वती कर्माणुपरिकलितो न विद्यते कोऽपि जीवोऽस्मिँल्लोके ॥ अथवा केचन जीवा देवगतिभाजः, केचन मनुष्यगतिमनुभवन्तिः, केचन तिर्यग्गत्यां तिर्यक्त्वं भुजानाः, कतिपयाश्च स्वाऽशुभकर्मानुसारेण नरकगत्यामवाच्याऽसह्यगाढदुःखोपेतं नारकपर्यायं बिभ्राणाश्चतुर्गतिविभागेन विभिन्नाः संसारिणो जीवा वर्तन्ते इति ज्ञानिना ज्ञानचक्षुषा दृश्यतेऽस्माभिरपि जिनागमात् श्रूयते च ॥ अथवेन्द्रियविभागेन जीवाः पञ्चधा विभक्ताः, कतिजीवाः स्पशनेन्द्रिययुक्ताः, कतिपयाश्च स्पर्शनेन्द्रिय-रसनेन्द्रिययुगलं धारयन्तः, केचिच्च स्पर्शन-रसन-प्राणाख्यानि त्रीणीन्द्रियाणि विभ्राणाः, पूर्वोक्तमिन्द्रियत्रिकं चक्षुरिन्द्रियोपेतं केचनादधन्तः, कतिपयाश्च जन्मान्तरोपार्जितशुभकर्मणो जागरूकत्वेन स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्रनामकानि पञ्चान्यपीन्द्रियाणि बिभ्रन्तः सुखं भुञ्जाना जीवा दृग्गोचरा भवन्ति । अनन्तसौख्यशालिनः कर्मकर्दमशोषणांशुमालिनःसिद्धान् वर्जयित्वा एकेन्द्रियादिपश्चप्रकारताबहिर्वतिनो जीवस्य संभवोऽसंभाव्य एव ।। अथवाऽस्मिजीवलोके पृथ्वीत्वमनुभजमानाः केचन पृथ्वीकायिकाः, अप्त्वं भुञ्जानाः केचनाप्कायिकाः, अग्नित्वं केचनाऽनुभवन्ति अत एवाऽग्निकायिकाः, वायुस्वरूपमनुसरन्तो वायुकायिकाः, वनस्पतित्वं दधन्तः कतिचिद् वनस्पतिकायिकाः(एते पञ्चाऽपि प्रकाराः स्थावरान्तर्गताः) त्रसत्वं भजमानाः त्रसकायिका इत्येवं पोढापि संसारसमापन्नगा जीवास्समाख्याताः॥
ननु द्वितीयगाथायां जीवस्य चतुर्दशभेदाः प्रतिज्ञाताः, अस्यां तु प्रकारान्तरेण जीवा व्यावर्णिताः, तत्कथं संभवति ? सत्यं, पूर्वोक्तगाथायां ये जीवस्य चतुर्दशमेदा व्यावर्णितास्तानग्रे मूलगाथया कथयिष्यन्ति ग्रन्थकर्तारः, अत्र तु ये अन्ये भेदा उक्तास्तत्र जीवाश्चतुर्दशप्रकारा एवेति निश्चयाऽभावप्रतिपादनार्थ ते भेदा अभ्यधायिषत । अन्यदपि एतद् ज्ञेयं यद् जीवाः
)
-)
>
<