________________
श्रीनवतत्त्व
सुमङ्गलाटीकायां
॥७॥
iz 5 5 5 5
N
V
A
品
T
A
>
प्रागुक्तगाथायां तत्त्वभेदप्रतिपादिकायां जीवतत्त्वस्य संख्यातश्चतुर्दशभेदा उक्ताः, एतत्तु स्वीकृतं परं वर्त्तन्ते जीवा अन्यभेदभिन्ना न वेति शंका व्युदासार्थं ग्रन्थकारस्तावदाह;एगविह-दुविह-तिविहा, चउव्विहा पंच छव्विहा जीवा । चेयण तस इयरेहिं, वेयगईकरणकाएहिं ॥३॥ टीका — “एगविहे” त्तिः पूर्वव्याख्यातद्वितीयगाथायां प्रतिज्ञाता जीवचतुर्दशभेदा अग्रे व्याख्यास्यन्ते, अस्यां तु जीवस्य एकविधत्त्वं द्विविधत्वमित्यनेन प्रकारेणोल्लिख्यते, तद्यथा; - सर्वे जीवा एकेन्द्रियादारभ्य पञ्चेन्द्रियपर्यन्ताश्चैतन्यात्मकेन लक्षणेन संगताः, यत एतादृङ्नास्ति कश्चिदपि जीवोयश्चैतन्यवियुक्तोऽपि जीवेत्याख्यां बिभत्तिं, लब्ध्यपर्याप्तसूक्ष्मै केन्द्रियकोटिपतितेऽपि जीवे चैतन्यस्य सूक्ष्मांशतया सर्वदा सद्भावो वरीवर्त्तत इति अग्रे सर्वं स्फुटं भविष्यति । यच्च पुनर्जीवस्य किं लक्षणमिति परिप्रश्ने सति ' चैतन्यलक्षणो जीव ' इति लक्षणस्वरूपनिश्चये जाते, यस्य वस्तुनो यल्लक्षणं तल्लक्षणाऽभावे तद्वस्तुनोऽप्यभाव इति जीवचैतन्ययोरन्वयव्यतिरेकिसम्बन्धात् चैतन्ययुक्तो जीव इत्येकप्रकारः । अथवा कर्म्मवशवर्त्तिनो ये संसारस्था जीवास्ते त्रसस्थावरभेदाभ्यां विभिन्नास्सन्ति केचन त्रसनामकम्र्मोदयात्रसत्वं भजन्ति, अर्थात् त्रासभयोत्पादकस्थानेभ्यो भीत्वा स्वेच्छया स्थानात्स्थानान्तरं गन्तुं समर्थाः, कतिपयाश्च स्थावरनामोदयात् त्रासभयस्थानकमनुभवन्तोऽपि तत्स्थानात्स्वैरं गन्तुमसमर्थाः स्थावरत्वं भजन्ते नास्त्येतादृक्कश्चिदपि जीवो यस्त्रसस्थावर भेदाभ्यां बहिर्भूतस्स्यात् ।। अथवा पुरुषवेद स्त्रीवेदनपुंसकवेदात्मकेषु त्रिषु विभागेषु संसारिणो जीवा भिन्नतामनुभवन्ति । तत्र ये दारान् प्रति स्वाभिलाषमाविर्भावयन्ति ते पुंवेदत्वं पिपुरति । ये च जीवा प्रतिपुरुषं स्वेच्छां दधति ते स्त्रीवेदभावं भजन्ते । ये च प्रतिनरं प्रतिनारीं च स्वानुबन्धं
12
U
品
555555
जीवभेद
प्रज्ञापना.
॥७॥