________________
Z
श्रीनवतत्त्वसुमङ्गलाटीकायां॥६॥
नवतत्त्वमेदप्रतिपादनम्.
>'
-
विधाय मोक्षमार्गे गमनमेव सुविदितम् । अभिधेयनवतत्त्वानां ग्रन्थस्य च वाच्यवाचकसम्बन्धो जन्यजनकसम्बन्धो वा, नवतत्त्वस्वरूपं जिज्ञासुरत्राधिकारीति अनुबन्धचतुष्टयमपि व्याख्यातम् इति ॥१॥
अथ प्रतितत्त्वं कतिभेदात्मकमिति प्रदर्श्यतेचउदस चउदस बाया-लीसा बासी य हुंति बायाला। सत्तावन्नं बारस, चउ नव भेया कमेणेसिं ॥२॥
टीका-'चउदसे 'त्ति जीवतत्त्वस्य चतुर्दशभेदाः, अजीवक्तवमपि चतुर्दशभेदलक्षणं, द्विचत्वारिंशद्भेदाः पुन्यतत्त्वस्य, पापस्य दूयशीतिः, आश्रवतत्त्वं द्विचत्वारिंशद्भेदात्मक, संवरस्य सप्तपञ्चाशत् , निर्जराया द्वादश, बन्धस्य चत्वारो मोक्षस्य च नव मेदाः क्रमेणेषां ज्ञातव्याः। एवं सर्वसंख्यया षट्सप्तत्यधिकद्विशतभेदा नवानामपि तत्त्वानां सम्मीलितानां भवन्ति, तेषां स्वरूपं प्रतितत्त्वं विस्तरेणाने ग्रन्थकारस्स्वयमेव वक्ष्यति, तथापि प्रागुक्तप्रथमगाथाव्याख्यायां मूलतत्त्वानां यथा जीवाजीवमूर्ताऽमूर्तहेयज्ञेयोपादेयात्मकेषु सप्तविभागेषु भिन्नता प्रदर्शिता तद्वत् तत्त्वभेदानामपि सप्तविभागेषु भिन्नता प्राचीनगाथाभिर्यन्त्रेण च प्रदर्श्यते, तद्यथा-"धम्माऽधम्माऽऽगासा, तियतिय अद्धा अजीवदसगा य॥ सत्तावन्न संवर निजर दुर्दस मुत्ति नवंगा य ॥ १॥ अहासि अरूवि हवइ, संपइ उ भणामि चेव रूवीणं ॥ परमाणुदेसपएसा, खंध चउ अजीवरूवीणं ॥२॥ जीवे दस चउ दु चउ, बासी बायालहुंति चत्तारि ॥ सय अट्ठासीरूवी दुसयछसत्त नवतत्ते" ॥३॥ एतासां गमनिकाधर्माऽस्तिकायाऽधर्मास्तिकायाऽऽकाशास्तिकायानामजीवस्वरूपाणां स्कंधदेशप्रदेशाख्यैर्विभागैर्नवभेदाः, अद्धा कालः स च दशम इति दश भेदा अजीवस्य, सप्तपञ्चाशत् संवरस्य, द्वादश निर्जरायाः, मोक्षस्य च नवमेदाः मिलितास्सर्वसंख्ययाऽष्टा
-
>
॥६
॥