________________
>379
>
तद्वत पुराणकर्मक्षपकं किमपि तत्त्वं वर्त्तते, तच्च निर्जराख्यं सप्तमं तत्त्वम् । आश्रवेण गृहीतानां कर्मणां सूचीकलापदृष्टान्तेन बद्धस्पृष्टनिधत्तनिकाचनाप्रकारैरात्मनः साकं यावत्सम्बन्धो न स्यात् तावदुदयद्वारा तस्य फलमपि न संभवेत, यच्च पुनर्जी वसम्बद्धप्राचीनकर्मविनाशकं निर्जरानामकं तत्त्वमस्ति तस्मादात्मना सह कर्मसंयोगकारकेण केनापि तत्त्वेन भाव्यमेव, तच्च बन्धनामकमष्टमम् । यदा जीवेन सह कर्मसम्बन्धो भवति तदा तस्य कर्मण आत्मप्रदेशेभ्यो मोक्षोऽपि संभावनीयः, पुनर्मोक्षस्य सर्वोत्कृष्टतया तदर्थमेव समस्तश्रुतप्रवृत्तिः प्रपोस्फुरीति चातस्सर्वश्रेयसामास्पदं सकलमंगलमणिमाणिक्यमकराकरायमाणं मोक्षनाम्ना सुविख्यातं नवमं तत्त्वम् ।। ग्रन्थान्तरेषु तत्त्वसप्तकं श्रूयते यथा-"जीवाज्जीवाश्रवबन्धसंवरनिर्जरामोक्षास्तत्वम्" इति ( तत्त्वा-अ. १. सू. ४) तत्कथं तत्त्वनवकं पुनः पुनः प्रस्तूयते ? सत्यं, तत्वसप्तकं यदस्ति तत्र पुन्यपापतत्त्वयोश्शुभाऽशुभाश्रवरूपत्त्वात् आश्रवे तत्त्वे एव समावेशो व्यधायि वाचकमुख्यैः, एवं च विवक्षया नवानामपि तत्त्वानां जीवाज्जीवात्मकत्वात् जीवाज्जीवलक्षणे तत्त्वद्विके निखिलानामपि तत्त्वानामन्तर्विधानं संजायते, अतो पूर्वोक्ताऽऽरेका न कर्त्तव्येति ॥ ननु ग्रन्थादौ मध्येग्रन्थं ग्रन्थान्ते च ग्रन्थनिर्मातृभिर्विघ्नव्यूहव्यपोहाऽथं शिष्यशिक्षायै पूर्वपुरुषपरिपाटीपालनार्थं च मङ्गलमवश्यमेव कर्त्तव्यं, तच्चास्मिन् नवतत्त्वप्रकरणे नाऽऽलोक्यते, तत्र किं बीजम् ? उच्यते; नमस्काराशीर्वादवस्तुसंकीर्तनात्मकानि त्रिप्रकारकाणि मङ्गलानि तत्तद्ग्रन्थेषु सुतरां व्याख्यातानि, अस्मिन् ग्रन्थे नमस्काराऽऽशीर्वादाऽऽत्मके मंगले दृष्टिपथं नागच्छतः परं वस्तुसंकीर्तनाख्यं तृतीयं मङ्गलमत्र वरीवर्तते, ततोऽत्र मङ्गलाऽभावप्रकारका विनेयाऽऽशङ्काऽपास्ता। 'नायबा' इतिपदेन नवतत्त्वानां स्वरूपमभिधेयम् । प्रयोजनं तु जीवादितत्वानां ज्ञानं सुपरिज्ञाय हेयोपादेयेषु निवृत्तिप्रवृत्ती
105 3zyog-
>3-
-
<
>