________________
z
श्रीनवतत्त्वसुमङ्गलाटीकायां
मृर्ताऽमूर्तहेयज्ञेयोपादेय विभागः.
>
पुद्गलविकारात्मकानि अतोऽजीवत्वोपेतानि, अजीवतत्त्वं तु अजीवस्वरूपमेवेति जीवाजीवविभागः। मृर्ताऽमूर्तविषये जीव इन्द्रियायतनयुक्तत्त्वान् मूर्तः, अजीवस्तु मूर्ताऽमूर्तस्वरूपो यत्कतिपयधर्माऽधर्माद्यानि द्रव्याण्यमूर्तिमन्ति, पुद्गलाश्च मूर्तिमन्तः। पुण्य-पापाऽऽश्रव-बन्धलक्षणानि चत्वारि पुद्गलविकारात्मकत्वेन मृर्तानि, संवरनिर्जरामोक्षाश्च जीवपरिणामरूपत्वादमूर्ताः । इति मृर्ताऽमूर्त्तविभेदः । तत्त्वनवके जीवाज्जीवी ज्ञेयौ, नहि जीवाजीवयोरादरत्यागौ भवतः। पापाऽऽश्रव-बन्धस्वरूपाणि त्रीणि तत्त्वानि आत्मगुणविघातकत्त्वाद्धेयानि । संवर-निर्जरामोक्षाश्च जीवगुणप्रकाशकत्वादुपादेयाः, पुण्यस्य तु सुवर्णशृंखलाबन्धनस्वरूपत्वात् निश्चयनयेन मुमुक्षुणा त्याज्यमेव परं मोक्षमार्गगमनशीलस्य मुमुक्षोःपथि पाथेयमिव हितकरत्त्वादुपादेयमपि ॥
ननु नवतत्त्वेषु प्रथमं जीवतत्त्वं, द्वितीयमजीवतत्त्वं, तृतीयं पुण्यतत्त्वं इत्यादिकः क्रमो निर्हेतुकस्सहेतुकोवा ? यदि सहेतुकस्तदा को हेतुः? उच्यतेः सकलतत्त्वावगन्ता, पुद्गलद्रव्याणामादाता आश्रवसंवरादिक्रियाविधाता जीव एव, यावजीवस्वरूपं सम्यक्तया न ज्ञायते तावजीवविरोधिनोऽजीवस्य-पुण्यपापाश्रवादीनां च नोपपत्तिस्तस्मादादौ जीवतत्त्वम् । जीवस्याऽमुत्र परत्र च गत्यागत्यादिकर्मसु अजीवस्वरूपाणां धर्माधर्माऽस्तिकायादीनां साहाय्यमृते सामर्थ्य नास्ति तस्माद्वितीयमजीवतत्त्वम् । कर्मस्वरूपी पुन्यपापावजीवात्मकावेव तत्रापि पुन्यं शस्तमशस्तं च पापतत्त्वमिति क्रमशः तृतीयतुर्यो पुन्यपापी वेयौ । पुन्यपापयोरपि शुभाऽशुभाश्रवं विना ग्रहणं न जाघटीति ततः पञ्चममाश्रवतत्वम् । यत आश्रवेण कम्मेबन्धो भवति ततः तन्निरोधकेन केनापि तत्त्वेनाऽवश्यं भवितव्यम् , स च संवरः तच्च षष्ठं तत्त्वम् । संवरेण नवकर्मसंततिर्यथाऽवरुद्धा
१ संसारिजीवापेक्षयेदम् , सिद्धजीवापेक्षया त्वमूर्त एव ।।
<
-
>
<!