________________
NAVASTAVA
बहुनिर्जराऽल्पबन्धात्मकेन जीवस्य मोक्षाऽवाप्तिः, मिथ्यादृष्टिश्च पुनः अल्पां निर्जरां बहुबन्धं च विधत्ते अत आत्यन्तिककर्म्मक्षयावसरो नास्ति तस्य । पुनः सा निर्जरा द्रव्वभावभेदाद् द्विविधा, कर्म्मण आत्मप्रदेशेभ्यो यद्देशेन निर्जरणं सा द्रव्यनिर्जरा । निर्जरायां निमित्तीभूता आत्मनो येऽच्छतमाध्यवसायाः सा भावनिर्जरा । अस्य लक्षणभेदात्मकं स्वरूपं निर्जरातत्वम् ।।७।।
मिथ्यादर्शनाऽविरतिकषाययोगैः शुभाशुभं कर्म बनाति इति बन्धः । पूर्वोक्तस्वरूपैरास्रवैः क्षीरनीरवद्वह्नययः पिण्डवद्वाऽऽत्मप्रदेशैः सह प्रकृत्यादिविशेषतो यः कर्म्मणां सम्बन्धः स बन्ध इत्यर्थः । इदमत्र तात्पर्यम् - प्राग्वद्धं कर्म विपाको - दयप्राप्तं सत् तत्सामर्थ्यात्तथाविधाऽध्यवसायवशतः यदि जीवस्तथाविधबन्धनपरिणामपरिणतो भवति ततः कर्म्मवर्गणान्तःपातिनो जीवप्रदेशाऽवगाढा: पुद्गला अपि ज्ञानावरणीयादिकर्म्मरूपतया परिणमन्ते, यदाहः- “ जीवपरिणामहेऊ कम्मत्ता पुग्गला परिणमन्ति । पोग्गलकम्मनिमित्तं जीवोऽवि तहेव परिणम " ॥ १ ॥ इति, अस्य लक्षणभेदात्मकं यत् स्वरूपं तद् बन्धतत्त्वम् ||८|| तथा मोक्षयति मोचयति बन्धोदयदीरणासत्तागतेभ्योऽष्टकर्म्मभ्यो जीवमिति मोक्षः । कृत्स्नकर्म्मक्षयात् ज्ञानशमवीर्यदर्शनात्यन्तिकैकान्तिकाऽनाबाधनिरूपमसुखात्मके स्थाने आत्मनः अवस्थानं मोक्षः, तस्य मोक्षतत्त्वस्य लक्षणभेदात्मकं स्वरूपं तन्मोक्षतत्वमिति ॥९॥
पूर्वव्याख्यातेष्वेषु नवतत्त्वेषु कियन्ति जीवस्वरूपाणि कियन्ति चाऽजीवात्मकानि ? इति जिज्ञासायां किञ्चिद्विव्रियते, सार्धं मूर्त्ता मूर्त्तविभागाः हेयज्ञेयोपादेयविभागा अपि तत्त्वनवकस्योल्लिख्यन्ते । जीवतत्त्वं जीवेन युक्तत्त्वात् जीवस्वरूपमेव, संवरनिर्जरामोक्षात्मकानि त्रीणि तत्त्वानि जीवगुणानां प्रकाशकत्वेन तान्यपि जीवात्मकानि । पुण्यपापाऽऽश्रवबन्धलक्षणानि चत्वारि
«N55<<