SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्त्व - सुमङ्गलाटीकायां ॥ ४॥ 55-55 A T A 144 ये विशुद्धा विशुद्धाध्यवसाया जीवस्य ते भावाश्रवाः । अस्याश्रवतत्त्वस्य लक्षणमेदात्मकं स्वरूपं तदाश्रवतत्त्वम् ॥ ५ ॥ तथा संवृणोत्याच्छादयत्याश्रषद्वाराणि, अथवा संक्रियन्ते सम्यक्तया निवार्यन्ते समागच्छन्ति कर्माणि यस्मात्स संवरः, तेषामाश्रवाणां गुप्त्यादिभिर्निरोधः स संवर इत्यर्थः तथाचोक्तम् ; “ आश्रवनिरोधः संवरः " ( तत्त्वा० अ. ९. सू. १ ) । जीवप्रदेशेषु कर्म्मण आगमनस्य यो निरोधः स द्रव्यसंवरः, कर्म्मण आगमनस्य निरोधे ये आत्मनो विशुद्ध-विशुद्धतर-विशुद्धतमाऽध्यवसायाः स भावसंवरः, यदुक्तं योगशास्त्रे - “ सर्वेषामाश्रवाणां तु निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा द्रव्यभावविभेदतः ॥ १ ॥ यः कर्म्मषुद्गलादानच्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः स पुनर्भावसंवरः " ॥ २ ॥ तस्य स्वरूपं तत् संवरतत्त्वम् ||६|| नितरामतिशयेन जीर्यन्ते क्षीयन्ते कर्माणि यया सा निर्जरा, कर्म्मणां तु विपाकात् तपसा वा यः शाः सा निर्जराऽथवा, सा सकामाऽकामभेदाभ्यां द्विधा, तत्र वीतरागपारगतगदितो बीजबुद्धिशालिगणधरगुम्फितः श्रीजिनधर्म अवितथ एव इति मन्यमानस्य प्रज्ञावतस्सम्यग्दृष्टेः शुभ-शुभतर- शुभतमाध्यवसायैर्ये कर्म्मणां शाटः सा सकामनिर्जरा । एकमपि जिनागमाऽक्षरं वैपरीत्येन श्रद्दधानस्य मिध्यादृष्टेर्यः कर्म्मणां परिक्षयः सा अकामनिर्जरा अभिधीयते, उक्तश्चः“ संसारबीजभूतानां कर्म्मणां जरणादिह निर्जरा सा स्मृता द्वेधा सकामा कामवर्जिता ॥ १ ॥ ज्ञेया सकामा यमिनीमकामा त्वन्यदेहिनाम् ” || अस्मिन् प्रकरणे सम्यग्दृष्टेर्या सकामनिर्जरा सैव निर्जरात्वेन गणनीया, यतस्सम्यग्दृष्टिः शुभाध्यवसायपरिणतस्सन् यावत् प्रमाणं कर्म्म परिशाटयति तत्प्रमाणात् नूतनकर्म्मबन्धमतीवाल्पतया विदधाति, अनेन क्रमेण १ ' यमिनाम्' इत्यनेन सम्यग्दृष्टयोऽपि प्राह्माः, न केवलं संयता एव, यतः सम्यग्दृष्टीनां सकामनिर्जरा सिद्धान्ते सुविख्याता । ॥ ४ ॥ US57505ASLSA प्रत्येक तत्त्वस्य व्याख्या.
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy