________________
> 卐卐>卐-
卐卐>yz
जीवस्य दुःखहेतुभृता ये कर्मपरमाणवस्ते द्रव्यपापतयाऽभिध्मीयन्ते, यच्च पुनरशुभकर्मण उत्पत्तौ मौलनिमित्तभूता ये संक्लियाऽध्यवसायास्तद् भावपापमुच्यते, एतदपि पुण्यवत् पापानुबन्धि-पुन्यानुबन्धिभेदाभ्यां द्विप्रकारम् । तत्र ये पूर्वविहिताsशुभकर्मणा तत्कर्मफलं दासत्वादिकमुपभुजाना धीवरशबरान्दय इहभवे दु:खिता विलोक्यन्ते, परभवेपि मत्स्यकपोतप्रभृतिक्षुद्रजन्तुविधातोपात्तानुभतमकाणो वचनाऽगोचरं दुःखमनु.भवन्तो दृश्यन्तेतराम् , एतच्च पापानुवन्धिपापमुक्तं मेधाविना । पूर्वोपार्जितकर्मणाऽभियोग्यादिदुःखानुबद्धदेहमनसो दुःखेनामस्रमनुतप्तचेतस्का अशरणास्सन्तोऽपि चेतसि ये एवं चिन्तयन्ति यदस्माभिर्दुर्लभतरं नरभवमवाप्य किंचिदपि धर्माचरणं न विहितं, कृपालेशोऽपि न व्यधायि क्षुद्रप्राणिष्वस्माभिरनेकपापाचरितानि अज्ञानत्वेन कृतानि, अत एवेदानीमवाच्यं दुःखं सह्यतेने परवद्भिरमाभिः, इहभवेऽपि यदि करुणाविष्टचेतस्कतया वयं न किमपि यथाशक्ति सुकृतं विधास्यामो वीतरागप्रणीतविशुद्धध्यमशरणं नाङ्गीकरिष्यामस्तदा परत्रापि का गतिर्भाविनी मामकीना, इत्येवं मनसि निर्धार्य "सह कलेवरखेदमचिन्तयन् स्ववशता च पुनस्तव दुर्लभा, घनतरं च सहिष्यसि जीव रे परवशोन च तत्र गुणोऽस्ति ते" ॥१॥ इति सूक्तोक्तमर्थ सफलीकुवन्तः दरिद्रश्राद्धचंडकौशिकादिवत् शुभकर्मोपार्जनं कुर्वन्ति तत् पुण्यानुबन्धि पापम् । अस्मिन्प्रकरणे पुन्यानुबन्धिपापमेवोररीकर्त्तव्यम् , अस्य पापस्य स्वरूपं लक्षणभेदात्मकं तत्पापतत्वम् ॥४॥ आसमन्तात् सूयते गृह्यते कर्म यैस्ते आस्रवाः शुभाऽशुभकाद्वानहेतवः। यथा विविधविवरशतसंकुलायां नावि विवरेभ्य उदकं प्रविशति, जलाक्रान्ता च नौका जलधौ निमजति, तथाश्रवन्विवरशतसंकुलोऽयमात्मा कर्मोदकभराक्रान्तस्सन् अपारसंसारपारावारे ब्रुडति । यया क्रिययाऽऽत्मप्रदेशेषु कर्मण आगमनं सा द्रव्याश्रवत्वेनाख्याता, कर्मोपार्जने हेतवो रागद्वेषात्मका
卐yyyy