________________
७)
श्रीनवतत्त्व सुमङ्गलाटीकायां
प्रत्येकतत्त्वस्य व्याख्या.
)
z''><ggy卐>
प्राणिनः पापपङ्कादिति पुण्यम् । यैः कर्मपुद्गलैजीवस्य सातानुभवः संजायते ते कर्माणवः द्रव्यपुण्यसंज्ञकाः, द्रव्यपुण्यनामककम्र्मोत्पत्तौ हेतुभूता जीवस्य ये शुभाध्यवसायास्तद् भावपुण्यमुच्यते ॥ अथवा पुण्यानुबन्धि-पापानुबन्धिप्रकाराभ्यां पुन्यंद्विधा, तत्र पुन्यं भुजानस्य यन्नव्यं शुभकर्म बध्यते, यस्योदयेन च पुनः शालीभद्र इव अमुत्र सुखसंपत्तिं सम्यक्प्रकारेणानुभूय परत्रापि सुखमेव भुनक्ति तत्पुन्यानुबन्धिपुन्यं, अस्मिल्लोके ये दानशौण्डा रिद्धिमन्तः परमपारगतप्रणीतत्रिकालाबाधितवीतरागधर्म सम्यपालयन्त इहभवे शान्तिसाम्राज्यमनुभवन्ति, धाराधनप्रभावाच्च पुनरागामिभवे स्वर्गादिसुखं भोक्ष्यन्ते, अत्र पुन्यानुबन्धिपुन्यमेव कारणतां भजति, यत् किल शुभमनुष्यादेजर्जीवस्य पूर्वभवप्रपश्चितं कर्म मानुष्यत्वादिशुभभावानुभवहेतुर्भवति, तदनन्तरं देवादिगतिपरम्पराकारणं च तत् पुन्यानुबन्धिपुन्यमुच्यते इति तात्पर्यार्थः, एतच्च ज्ञानपूर्वकनिर्निदानकुशलानुष्ठानाद् भवति ॥ यस्योदयेन च पुनः ब्रह्मदत्तचक्री इव अमुत्र भबे सुखमनुभूय परत्र नरकवतिर्यक्त्वादिकं अनुभवति तत् पापानुबन्धिपुन्यम् । यथा आर्यजनपदेऽनार्यदेशे वा एतादृशोऽपि केचन वरीवन्ते यदस्मिन् भवे जन्मान्तरोपचितपुन्यविपाकात्मकं लक्ष्मीललनापरिकलितं विषयसुखमनुबोभूयन्ते परं गर्वाध्मातमनसः त्रिपुटीशुद्धदेवगुरुधर्ममश्रद्दधाना देवानांप्रियाः कृतघ्नास्सन्तस्ते दानशीलादिधादिकार्यमकुर्वाणा असदाचारप्रवृत्तत्तया हिंसा-मृषावाद-स्तेय-परदारगामित्त्वपरिग्रहग्रहिलतया पापातिशयं बद्धा नरकादिभवे तीव्रशातनामनुभवन्तो दरीदृश्यन्ते ज्ञानिभिः, अत्र पापानुवन्धिपुन्यस्य हेतुता, अस्मिन्नवतत्त्वप्रकरणे पुन्यानुवन्धिपुन्यमेव सुकृततया ज्ञेयम् , तस्य लक्षणप्रकाराभ्यां स्वरूपं तत्पुन्यतत्त्वमिति ॥३॥ अपगता निरस्ता सुखानां प्राप्तिर्यत्र तत् पापं, यस्योदयेन जीवो दुःखदौर्भाग्यादिकमनुभवन् दृश्यते तच्च पापस्य विलसितम् । तत्र
))zyo卐८
)