________________
Z55
A
>>
वरणकर्म्मसद्भावादभ्युपेयानि, यदा च लब्धिरूपान्तः करणे-न्द्रियऽऽभोगिकाऽनाभोगिकवीर्यसम्पन्नस्याऽऽत्मनो वीर्यपर्यायकरणानुसारी क्षयोपशमस्संजायते तदा यथाक्षयोपशमं ज्ञानमाविर्भवति, संक्लिष्टाध्यवसायेन क्षयोपशमानुकूलवीर्यापगमे च पुनरपि तदेव ज्ञानावारकं कर्म्म आवृणोति सद्यस्तमात्मानम्, प्रागपाकीर्णसैवालानामपामच्छत्त्वमिव, पुरुषका - व्यापारविरामादनन्तरमेव शैवालपटलानि यथा पुनराच्छादयन्ति यथा वा भस्माद्यनेकद्रव्योद्धृष्टविमलादर्शतलमागन्तुकश्यामिकामलीमसमाशुजायते, अथवा संमार्जनीशुद्धप्रासादेऽपि प्रबलपवनोद्धतानि रजांसि वातायनद्वारा समागत्य विशुद्धमपि हर्म्यं कचवरसंपन्नं विदधति तथाऽस्यात्मनो मुहुर्मुहुर्ज्ञानावरणजलधौ निमज्जनोन्मजने कुर्वतः स्पष्टः स्पष्टतरः स्पष्टतमः मलीमसः मलीमसतरः मलीमसतमश्चः बोधः प्रादुरस्ति, शारदः शशीव यदा सर्वथा निरावरणो ज्ञानावारकत्वादिघातिकर्म्मापेक्षया भवति तदा हस्तामलकवत् निःशेषद्रव्यपर्यायान् जानातीति प्रत्येतव्यम् ॥ ननु निगोदादिषु चेतनालक्षणवत्त्वं जीवस्य कथं जाघटीति ? न दृश्यते तत्र चैतन्यलेशोऽपि, उच्यतेः – तत्रापि चेतनाऽवश्यंभाविनी अल्पांशतया, एतच्चाग्रे वक्ष्यामो वयं, तथापि यदि - निगोदप्रभृतिष्वल्पचैतन्येषु स्तोकतमोऽपि ज्ञानांशो न स्यात्तदा जीवा अजीवत्त्वं प्राप्नुयुः, एवं चाऽऽगमविरोधः, तस्मात् चेतना लक्षणो जीव इति सिद्धम् । जीवस्य यल्लक्षणभेदाद्यात्मकं स्वरूपं तञ्जीवतत्त्वम् ॥ १ ॥
節
SUSANAL
द्रव्यभावप्राणधारणात्मकं कर्म्मकर्तृत्वादिकं चेतनात्मकं यजीवलक्षणमनुपदमेवोक्तं तद्यत्र न घटते सोऽजीवः धर्म्माऽधमकाशपुद्गलकालात्मको वक्ष्यमाणस्वरूपः । यो जीवो न भवति स अजीव इति नञ्समासे पर्युदासो विज्ञेयः, जीवद्रव्यापेक्षया - भिन्नानामपि अजीवद्रव्याणां द्रव्यापेक्षयाऽभिन्नत्त्वम् । तस्य लक्षणप्रकारात्मकं स्वरूपं तदजीवतत्त्वम् ॥२॥ पुनाति पवित्रीकरोति
L
5